Enter your Email Address to subscribe to our newsletters

पूर्वी सिंहभूमम्, 2 दिसंबरमासः (हि.स.)।झारखंडराज्यस्य सर्वान् बङ्गलभाषिभोजनान् संगठयितुं संस्थाया बङ्गबन्धोः एकः महत्वपू्र्णः उपवेशनम् मंगलवारदिने बिष्टुपुरस्थिते चेम्बरभवनप्रेक्षागृहे आयोजितम्। उपवेशनस्य अध्यक्षता केन्द्रियाध्यक्षया अपर्णा गुहया महासचिवेन उत्तम गुहेन च कृताऽभूत। उपवेशने सर्वसम्मतिना पूर्वसिंहभूमजिलाकमिटी स्थापिता, यस्मिन् पेट्रोनपदे रवीन्द्रनाथदासः बहरागोडात् चित्तोरंजनदासः पोटकात् च मनोनितौ।
तथा एव सलाहकारपदे सुबोधगोराइ अध्यक्षपदे प्रकाशमुखर्जी कार्याध्यक्षपदे एस के माइति बहरागोडात् देबजीत् सरकारः तोतनदत्तः इति च नियुक्ताः। महासचिवपदे बाबूलालचक्रवर्ती कोषाध्यक्षपदे सौरवचटर्जी सहकोषाध्यक्षपदे प्रणबबराट् इत्यादयः अन्ये पदाधिकारी अपि चयनिताः।
अनन्तरं बंगीयोत्सवसमित्याः उपवेशने झारखंडराज्ये बङ्गलभाषायाः संस्कृतेः च संवर्धनाय राज्यस्तरीयं बंगीयोत्सवम् द्विसहस्र षट्विंशतितमे वर्षे (२०२६) आयोजनं कर्तुं निर्णयः कृतः। समितेः अनुसारं एषः भव्यः उत्सवः एके फरवरीदिने द्विसहस्र षट्विंशतितमे वर्षे बिष्टुपुरगोपालमैदाने प्रातः दशवादनात् आरप्स्यते।
अस्य आयोजनस्य उद्देश्यम् अस्ति — बङ्गलभाषां सांस्कृतिकधरोहरं लोककलां पारम्परिककलाश्च एकस्मिन्न् मंचे प्रतिष्ठापयितुं, यत्र राज्यस्य विविधान् जिलातः आगता कलाकाराः स्वकला प्रदर्शयिष्यन्ति।
उपवेशने शुभंकरचटर्जी इन्द्रजीत्घोषः पूरबीघोषः अपर्णा गुहा उत्तमगुहा अमितमैति अशोकदत्तः सुभाषसिंह रॉय बिनोददे उत्थानमुखर्जी प्रणबसर्कार इत्यादयः मान्यसदस्याः उपस्थिताः
आसन्।
---------------
हिन्दुस्थान समाचार