Enter your Email Address to subscribe to our newsletters

शिमला, 2 दिसंबरमासः (हि.स.)। हिमाचलप्रदेशस्य सर्वकारः राज्यपथपरिवहननिगमे युक्तिकरणप्रक्रियाम् आरभते स्म। अस्याः प्रक्रियायाः अन्तर्गतं ४३५ हानिग्रस्ताः लोकायान-मार्गाः निरोद्धव्या इति निर्णीतम्। एतत् विवरणं मुख्यमन्त्रिणा सुखविन्दरसिंह–सुक्खुना मंगलवासरे विधानसभायां विधायकसञ्जय-अवस्थिना पृष्टे प्रश्न उत्तरे हस्तक्षेपेन प्रदत्तम्। तेनोक्तम्— -निगमे अनवरतं वर्धमानहानिं दृष्ट्वा सर्वकारः कतिपयान् मार्गान् निजीयक्षेत्राय दातुं प्रवृत्तः अस्ति।
मुख्यमन्त्रिणा उक्तम्— HRTC प्रतिमासं प्रायः ७० कोटि-रूप्यकाणां हानिं प्राप्नोति। अस्मात् वार्षिकहानिः ८४० कोटि-रूप्यकाणि भवन्ति, निगमस्य समष्टिहानिः च अद्य यावत् २२०० कोटि-रूप्यकाणि अतिक्रान्ता। सर्वकारः प्रतिवर्षं दो परिवहननिगमाय ७८० कोटि-रूप्यकाणामनुदानं ददाति, तथापि स्थितिरेव चिन्ताजनका वर्तते। अतः येषु मार्गेषु अतिरिक्ता लोकयानानि सञ्चरन्ति स्म, यात्रिकानां संख्या पुनः न्यूनास्ति, तत्र एव निरोधः क्रियते, यतः निगमस्य नित्यं हानिः जायते स्म।
सुक्खु-मुख्यमन्त्रिणा अपि उक्तम्— सर्वकारः निजीय-यात्रायानानां विषये पास-नीतिम् उपकल्पयति, विद्यार्थिनां पत्राणि च निर्मीयन्ते। अनया नीत्या प्रतिमार्गे विद्यार्थिनां वास्तविकसंख्या ज्ञास्यते, ततो यथानुसारं परिवहननिगमस्य लोकयानसेवाः पुनर्बहालीकरणं वा समायोजनं वा करणीयम् इति।
पूर्वं मूलप्रश्ने शिक्षामन्त्रिणा रोहित-ठाकुरेण उत्तरं दत्तम्— “कन्धर–बागा” नाम बससेवा अद्यतने स्थितौ चण्डीगढ़-नगरान्तं यावत् एव प्रवर्तते, न तु दिल्ली-नगरं प्रति पुनर्बहलिता। चण्डीगढ़स्य परं मार्गः हानिग्रस्तः आसीत्, तत्र पर्याप्ताः बसयः विद्यमानाः इति। HRTC-निगमे अद्य १३०० कोटि-रूप्यकाणामधिकं देनदारिः इति च तेन प्रोक्तम्। विधायक-त्रिलोक–जम्वालस्य प्रश्नोत्तरे तेनोक्तम्— बिलासपुरात् कन्दरौर–हरलोग मार्गेण जाहू-नगरं प्रति यानसेवा हानिकारणात् निरुद्धा। अस्मिन् मार्गे निजीय–यात्रायानसेवा पूर्वमेव आरब्धा। यदि तत्र विद्यार्थिनां संख्या अधिका दृश्येत, तर्हि सर्वकारः पुनर्बहाल्यर्थं चिन्तां करिष्यति।
विधायक–विनोदकुमारस्य प्रश्नोत्तरम्– शिक्षामन्त्रिणा उक्तम्— ये वाहनाः माइलेजं पूर्णीकृतवन्तः, जीर्णाः च सन्ति, ते शीघ्रमेव परिवर्तयिष्यन्ते। शिमला–परवाणु-डेपोयोः विद्यमानाः अतिरिक्त-बसयः सुन्दरनगर-डेपं प्रति प्रेष्यन्ते, येन तत्र लोकयानानां न्यूनता पूर्येत। सः अपि अवदत्— “गद्दीधार–करसोग” लोकयानसेवाया पूनर्चालनकरणनिर्णयः अद्यतने समये न स्वीकृतः।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani