Enter your Email Address to subscribe to our newsletters

साइबर-सुरक्षायै कृत्रिम-बुद्धेः च नूतनां दिशं दास्यति आईआईटी कानपुरस्य एनएमडीसी-समेतम् परस्परम् सहयोगः इति प्रो० मणीन्द्र-अग्रवालः।
कानपुरम्, 2 दिसंबरमासः (हि.स.)। भारतीय-प्रौद्योगिकी-संस्थानम् (आईआईटी) कानपुरम् तथा एनएमडीसी लिमिटेड् (भारत-सर्वकारस्य इस्पात-मन्त्रालयस्य अधीनं नवरत्न-लोक-क्षेत्र-उद्यमम्) उभयं मिलित्वा महत्त्वपूर्णं सन्धि-ज्ञापनम् हस्ताक्षरितवन्तौ। अस्य उद्देशः अस्ति—साइबर-सुरक्षा, सूचना-सुरक्षा, कृत्रिम-बुद्धिमत्ता (एआई), यन्त्र-अधिगमः (एमएल), डिजिटल-रूपान्तरणम् तथा आगामि-पीढी-सम्बद्ध-प्रविधयः इत्येतेषु सहकार्यं कर्तुम्, येन एनएमडीसी-नामकस्य संस्थानस्य आईटी-ओटी-तन्त्राणि अधिकं सुदृढानि समर्थानि च कर्तुं शक्येत।
मङ्गलवासरे एमओयू-हस्ताक्षर-सन्दर्भे आईआईटी-कानपुर-निदेशकः प्रो॰ मणीन्द्र-अग्रवालः उक्तवान् यत् अस्माकं समीपे साइबर-सुरक्षा-कृत्रिमबुद्धिमत्ता-क्षेत्रयोः राष्ट्रीय-महत्त्वस्य चुनौतिषु कार्यकरणस्य उत्तमः अनुभवः विद्यते। एषः सहयोगः एनएमडीसी-कार्यान्वयनस्य साइबर-सुरक्षां सम्यक् दृढां करिष्यति तथा कृत्रिम-बुद्धिमत्ता, यन्त्र-अधिगमः, स्मार्ट-औद्योगिक-तन्त्राणां विकासं विशेषतः खनन-क्षेत्रे प्रवर्द्धयिष्यति।
अग्रे सः अवदत् यत् अस्य अन्धेः अन्तर्गतम् आईआईटी-कानपुरस्य C3iHub-नामकं केंद्रम् एनएमडीसी-इत्यस्य कृते साइबर-जोखिम-मूल्यांकनं, सुरक्षा-दोषाणाम् अभिज्ञानम्, सुरक्षा-प्रबन्धनम्, घटना-प्रतिक्रिया-योगना, सिक्योरिटी-ऑपरेशन-सेंटर-मॉडल्-मानकानां सुदृढीकरणम् इत्यादिषु सहयोगं करिष्यति। एवं च एआई/एमएल-आधारित-समाधानाः, डिजिटल्-ट्विन्स्, पूर्वानुमान-रक्षणम्, उन्नत-डेटा-विश्लेषणम् च—एतेषां माध्यमेन खनन-क्षेत्रेषु परिचालन-दक्षता-वृद्धिः साध्यते।
अस्मिन् सन्धौ आईआईटी-कानपुरम् तथा एनएमडीसी उभौ मिलित्वा अनुसन्धानम्, क्षमता-निर्माण-कार्यक्रमाः, तकनीकी-पायलट्-परियोजनाश्च चलयिष्यतः। सफल-परिणामान् व्यापक-स्तरे प्रवर्तयितुं अपि प्रयत्नाः करिष्यन्ते। एषा साहभागिता भारतस्य खनन-क्षेत्रे साइबर-सुरक्षा तथा डिजिटल-रूपान्तरणम् प्रति नूतन-दिशां ददाति, अतीव महत्त्वपूर्णः निर्णयः इति।
हिन्दुस्थान समाचार / अंशु गुप्ता