जोधपुर डिस्कॉम: सौर क्षमता अधुना 2000 मेगावाटतः अधिका
जयपुरम्, 2 दिसंबरमासः (हि.स.)। प्रधानमन्त्रीकिसानऊर्जासुरक्षा उत्थानमहाभियानस्य पीएम कुसुम नामकस्य अन्तर्गतं जोधपुरडिस्कॉम इत्यनेन अद्भुतं कीर्तिमानं स्थापितम् तथा अभूतपूर्वा उपलब्धिः प्राप्ता। जोधपुरडिस्कॉमक्षेत्रे कुसुम ए कुसुम सी इति उभयोरपि घ
जोधपुर डिस्कॉम: सौर क्षमता अब 2000 मेगावाट से अधिक


जयपुरम्, 2 दिसंबरमासः (हि.स.)।

प्रधानमन्त्रीकिसानऊर्जासुरक्षा उत्थानमहाभियानस्य पीएम कुसुम नामकस्य अन्तर्गतं जोधपुरडिस्कॉम इत्यनेन अद्भुतं कीर्तिमानं स्थापितम् तथा अभूतपूर्वा उपलब्धिः प्राप्ता। जोधपुरडिस्कॉमक्षेत्रे कुसुम ए कुसुम सी इति उभयोरपि घटकयोः संयुक्ता सौरक्षमता 2017.33 मेगावाट इति सीमा अतिक्रान्ता।

डिस्कॉमस्य प्रबन्धनिर्देशकः डाक्टर भंवरलाल इत्यनेन उक्तं यत् कुसुम ए कार्यक्रमे अद्यावधि 240 संयन्त्रा स्थापिताः सन्ति, येषां संयुक्ता क्षमता 336.25 मेगावाट अस्ति। एषः मॉडल् ग्रामीणप्रदेशेषु विकेन्द्रीकृतउत्पादनं सुदृढं करोति तथा भूमिलीज् अथवा ऊर्जाविक्रयेन कृषकेभ्यः अतिरिक्तमायः प्रदत्तः। इदानीं च एषः कृषकाणां कृषेः अनिश्चिततायामपि स्थिरमधारम् अभवत्।

तेनेदं अपि निगदितम् यत् कुसुम सी अन्तर्गतं 639 सौरसंयन्त्रा 1681.08 मेगावाट क्षमता सहिताः तथा 84,088 सोलरपम्पाः कृषकेभ्यः प्रदत्ताः। अनया क्रियया कृषौ डीजलाधीनता प्रायः समाप्तिं प्रति गतवती। सिंचनव्ययः अत्यन्तं न्यूनः जातः तथा कृषिउत्पादनयोजना पूर्वं तुल्येभ्यः अधिकं सुलभा अभवद्।

डाक्टर भंवरलाल उक्तवान् यत् पीएम कुसुम केवलं ऊर्जायोजना न, अपि तु ग्रामीणसमृद्धेः उत्प्रेरकः अभवत्। सौरसंयन्त्रस्थापनया स्थानिययुवकानां रोजगाराः प्राप्ताः। तत्र तन्त्रज्ञाः सुरक्षाकर्मिणः मेन्टेनेन्सकार्यकर्तारः लघुसप्लाईचेनव्यवसायाश्च सक्रियाः अभवन्। ग्रामाणां युवानां पलायनं च अनया क्रियया न्यूनं जातम्। ग्रामेषु लघु उद्यमा विकसिताः, यथा सोलरपम्परिपेयरकेन्द्राणि, वैयरिंग् इलेक्ट्रिकलदुकानाः, स्थानीयपरिवहनसेवाश्च सुदृढाः जाताः। विद्युत्सुलभत्वात् ग्रामीणपान्यजलपरियोजनासु हस्तशिल्पइकाइषु दुग्धोत्पादने कोल्डस्टोरेजविषये च नवानि अवसराणि वर्धितानि। उत्तमा ऊर्जा उपलब्धता ग्रामेषु उत्तमजीवनत्वं रात्रिसुरक्षा च स्त्रीणां जीविकासाधनानि च वृद्धि प्राप्तवन्ति।

---------------

हिन्दुस्थान समाचार