बाङ्ग्लादेशस्य पूर्वप्रधानमन्त्री खालिदाजिया वेन्टीलेटर इत्यस्य उपरि स्थापिता, सर्वकारेण ‘वीवीआईपी’ घोषितम्
ढाका, बाङ्ग्लादेशम्, 02 दिसम्बरमासः(हि.स.)। बाङ्ग्लादेशस्य प्रथममहिलाप्रधानमन्त्री तथा बाङ्ग्लादेशस्य राष्ट्रीयतावादीदलस्य अध्यक्षा खालिदाजियामहोदयायाः स्वास्थ्यावस्था अत्यन्तं दयनीया, सङ्कटपूर्णा च वर्तते। अशीतीवर्षीयावयस्का खालिदाजिया राजधानीस्थे
खालिदा जिया को राजधानी ढाका के एवरकेयर अस्पताल में भर्ती कराया गया है। फोटो - ढाका ट्रिब्यून


ढाका, बाङ्ग्लादेशम्, 02 दिसम्बरमासः(हि.स.)। बाङ्ग्लादेशस्य प्रथममहिलाप्रधानमन्त्री तथा बाङ्ग्लादेशस्य राष्ट्रीयतावादीदलस्य अध्यक्षा खालिदाजियामहोदयायाः स्वास्थ्यावस्था अत्यन्तं दयनीया, सङ्कटपूर्णा च वर्तते। अशीतीवर्षीयावयस्का खालिदाजिया राजधानीस्थे 'एवरकेयर चिकित्सालये' प्राणरक्षार्थं वायुसहायकयन्त्रे स्थापिता अस्ति।

देशस्य अन्तरिमशासनेन तस्याः स्वास्थ्यगाम्भीर्यं अवलोक्य तत्क्षणप्रभावेण सा ‘वीवीआईपी’ (अत्यन्त–महत्त्वपूर्णा व्यक्तिः) इति रूपेण घोषितम्। तस्याः सुरक्षायै विशिष्टसुरक्षासैन्यम् अपि समर्पितम्।

भारतस्य प्रधानमन्त्रीनरेन्द्रमोदी सन्देशमाध्यमेन तस्याः शीघ्र–आरोग्यलाभाय प्रार्थनाम् प्रकटितवान्। तथैव लण्डननगरे निवसन् तस्याः पुत्रः तारिकरहमान: देशं प्रत्यागन्तुं प्रारम्भिकसज्जां कुर्वन् अस्ति इति सूचना प्राप्ता।

समाचारसेवासंस्था BSS इत्यस्य प्रतिवेदनानुसारं, दलस्य स्थायीसमितेः सदस्यः सलाहुद्दीन: अहमद: सोमवासरे सूचितवान् यत् दलस्य कार्यवाहक–अध्यक्षः तारिक: रहमान: शीघ्रमेव देशं प्रत्यागमिष्यति। एषा सूचना गुलशननगरे स्थिते तस्याः कार्यालये रात्रौ सम्पन्नायाः दलसभायाः अनन्तरम् पत्रकारेभ्यः प्रदत्ता।

दलस्य स्वास्थ्यस्थितिविषये भारतीय: प्रधानमन्त्रीमोदी सामाजिकमाध्यममञ्चे “X” इत्यत्र लिखितवान्— बेगमखालिदाजियायाः स्वास्थ्यवार्तां ज्ञात्वा अहम् अत्यन्तं दुःखितः अस्मि। भारतदेशः यथा शक्यं स्पृश्य-अस्पृश्यरूपेण सहायतां कर्तुं सज्जः अस्ति। तस्याः शीघ्र–आरोग्याय अस्माकं प्रार्थनाः, शुभकामनाः च विद्यन्ते।

अयं सन्देशः तस्याः उन्नतचिकित्सा–उपचारप्रवाहसमये उदितः। सोमरात्रौ अन्तरिमसर्वकारेण एकं राजकीय–अधिसूचनम् अपि निर्गतम् अस्ति।राष्ट्रपतेः आदेशानन्तरम् मुख्यसलाहकारकार्यालयस्य प्रशासनप्रमुख–अधिकारी मोहम्मद- अब्दुलवदूदचौधरी इत्यनेन अधिसूचनायां हस्ताक्षरं कृतम्।

अधिसूचनायाः विवरणानुसारं, विशिष्टसुरक्षासेना–अधिनियमस्य 2021, धारा 2(क) इत्यस्य अन्तर्गतं खालिदाजिया ‘वीवीआईपी’ इति घोषितम्, तथा च तस्याः सुरक्षायाः उत्तरदायित्वं विशिष्टसुरक्षासैन्यस्य (SSF) अधीनं ग्रहणाय मार्गः प्रशस्तः अभवत्।

अयं सम्मानितस्तरः सामान्यतया देशप्रमुखाय (राष्ट्रपतये) तथा शासनप्रमुखाय (प्रधानमन्त्रिणे / मुख्य–सलाहकाराय) एव प्रदीयते। दलसभायां, बाङ्ग्लादेशस्य राष्ट्रीयतावादीदलस्य उपाध्यक्षः अहमद: आजमखान: माध्यमान् सूचितवान्— खालिदाजियामहोदयायाः स्थितिः अत्यन्तं गम्भीरा अस्ति। रविवाररात्रेः आरभ्य तस्याः स्थितौ कश्चन सुधारः नाभवत्। अस्माकं समीपे प्रार्थनाभ्यः विना अन्यः उपायः नास्ति।

आजमखान: एवरकेयरचिकित्सालयस्य समक्षं दिवा 1:45 वादने एतां सूचनां पत्रकारेभ्यः उक्तवान्, तथा च अवदत् यत् तस्याः स्वास्थ्यावस्था विषये अधिकं वक्तुं स्थिति: अद्यापि अनुकूलं नास्ति।

---

हिन्दुस्थान समाचार / Dheeraj Maithani