Enter your Email Address to subscribe to our newsletters

मुंबई, 02 दिसंबरमासः(हि.स.)।कुवैतात् हैदराबादं प्रति गच्छन्त्या इंडिगो-विमानस्य बम्भु-भयस्य प्राप्तौ विमानस्य आपत्कालीन-भूमिस्पर्शनं मुम्बई-विमानपत्तने कृतम्। विमाने उपविष्टाः सर्वे अपि यात्रियः सुरक्षिताः सन्ति। विमानं विमानपत्तनस्य पृथक्-स्थाने (आइसोलेशन बे) नीतम्।
अधिकृत-सूत्रैः मंगलवारे उक्तम् यत् कुवैतात् हैदराबादं प्रति आगच्छन्तम् इंडिगो-विमानम् बम्भु-भययुक्त-सन्देशस्य प्रापणात् अनन्तरम् मुम्बईं विचलितम् कृतम् तथा चात्र सुरक्षितं आपत्कालीन-भूमिस्पर्शनं कृतम्। कुवैतात् आरब्ध-उड्डाणे अस्मिन् विमाने बम्भु-स्थितेः चेतावनी दत्ता आसीत्। एषः भय-युक्तः सन्देशः ईमेल्-माध्यमेन आगतः आसीत् यं दिल्ली-विमानपत्तनम् अलभत।
अनन्तरं कुवैतात् हैदराबादं प्रति आगच्छन्ती इंडिगो-उड्डयन-याने मुम्बईस्य छत्रपति-शिवाजी-महाराज-अन्ताराष्ट्रिय-विमानपत्तने आपत्कालीन-भूमिस्पर्शनं कृतम्, यत्र विमानस्य सुरक्षितं भूमिस्पर्शनं जातम् तथा सर्वे यात्रिकाः सुरक्षिततया बहिः नीताः। यात्रिकाणां कृते विकल्प-व्यवस्था क्रियते। यद्यपि इंडिगो-पक्षात् अद्यापि कोऽपि अधिकृतः प्रत्युत्तरः न प्राप्तः। विस्तीर्ण-सूचनाया: प्रतीक्षा क्रियते।
---------------
हिन्दुस्थान समाचार