राष्ट्रियराजमार्गेषु दुर्घटनासंभावितप्रदेशेषु पूर्वमेव सचेतना प्राप्स्यति। एनएचएआई संस्थया सह रिलायंसजियोसंसंस्थायाः सन्धिः
नवदेहली, २ दिसम्बरमासः (हि.स.)। भारतीयराष्ट्रीयराजमार्गप्राधिकरणेन (एनएचएआई) राष्ट्रीयराजमार्गउपयोगकर्तृणां सुरक्षावृद्धये यात्रानुभवस्य च उत्कर्षाय रिलायंसजियो दूरसञ्चारसंस्थया सह दूरवाणी-आधारितसुरक्षासचेतनाप्रणाली स्थापयितुं सन्धिः कृतः। अस्य प्र
एनएचएआई


नवदेहली, २ दिसम्बरमासः (हि.स.)। भारतीयराष्ट्रीयराजमार्गप्राधिकरणेन (एनएचएआई) राष्ट्रीयराजमार्गउपयोगकर्तृणां सुरक्षावृद्धये यात्रानुभवस्य च उत्कर्षाय रिलायंसजियो दूरसञ्चारसंस्थया सह दूरवाणी-आधारितसुरक्षासचेतनाप्रणाली स्थापयितुं सन्धिः कृतः। अस्य प्रणाल्याः माध्यमेन दुर्घटनासंभावितप्रदेशेषु, कुहुमतप्रभावितभागेषु, उद्दण्डपशूनां विचरणक्षेत्रेषु, आकस्मिकमार्गपरिवर्तनस्थलेषु च आगच्छतां यात्रिकानां प्रति एसएमएस-सन्देशैः, व्हाट्सऐप-सन्देशैः, उच्चप्राथमिकतादूरवाणि–दूरभाषाभिश्च समयोचिताः सचेतनाः प्रदास्यन्ते। एषा प्रणाली एनएचएआई संस्थायाः “राजमार्गयात्रा” इति अङ्कीयमञ्चेन सह क्रमशः एकीकृतकर्तुं निर्धारितम्। अस्य फलस्वरूपं राष्ट्रीयराजमार्गेषु यात्रा अधिकं सुरक्षितां भविष्यति।

केंद्रीयसड़कपरिवहनराजमार्गमंत्रालयस्य निवेदने उक्तं यत् यात्रिकाः यदा दुर्घटनासंभावितकाण्डं, कुहुमयप्रदेशं, उद्दण्डःपशुसंकीर्णं भागं, आपत्कालीनमार्गपरिवर्तनं वा समीपयन्ति तदा तेषां दूरवाणी-उपकरणेषु पूर्वमेव सचेतना प्रेषयिष्यन्ते। एसएमएस–वर्तमानैः, व्हाट्सऐप–सन्देशैः, तथा उच्चप्राथमिकतादूरवाणिदूरभाषाभिः सचेतनाः दास्यन्ते।

एनएचएआई–संस्थायाः ‘राजमार्गयात्रा’ दूरवाणी-एप-अनुप्रयोगः तथा आपत्कालीनदूरवाणीसेवा १०३३–संख्या च अस्य प्रणाल्या सह क्रमशः एकीकृतङ्करणं प्राप्स्यतः। एषा स्वयंचालितप्रणाली सर्वेषां जियो-दूरवाणी-उपयोगकर्तॄणां कृते कार्यक्षमाभवति, ये च संकटप्रदेशस्य समीपं यान्ति ते पूर्वमेव सुरक्षितानि निर्णयानि कर्तुं शक्नुवन्ति।

एनएचएआई अध्यक्षः सन्तोषकुमारयादवः उक्तवान्—

“एषः प्रयासः राष्ट्रीयराजमार्गयात्रिकेभ्यः समयोचितां विश्वसनीयां च सूचनां दातुं महत्त्वपूर्णं पादान्तरम् अस्ति। अस्य प्रभावेन सुरक्षितवाहनचालनं शक्यम्। अयं तन्त्रज्ञानाधारितसड़कसुरक्षाव्यवस्थापनस्य नूतनमानं स्थापयिष्यति।” रिलायंसजियो अध्यक्षः ज्योतिंद्रठाकुरः अवदत्— “एषः प्रयासः जियोजालस्य व्यापकसेवां उपयुज्य समयोचिताः सुरक्षासचेतनाः दास्यति, येन राष्ट्रीयराजमार्गेषु यात्रा अधिकं सुरक्षितं सूचितं च भविष्यति।”

उल्लेखनीयम् यत् प्रारम्भिकपायलटपरियोजना कुछ क्षेत्रीयकार्यालयाधीनं संकटप्रदेशपरिचयकार्यं सचेतनासीमानिर्धारणञ्च अवलम्बति। एनएचएआई भविष्ये अन्यदूरसञ्चारसेवाप्रदातृभिः अपि एतादृशान् संधीः करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता