आचार्य प्रमोद कृष्णम इत्यस्य विपक्षे आक्रामितम्, कथितम् एसआईआर राष्ट्रहिते
मानसिक संतुलनमत्यजत् विपक्ष-आचार्य प्रमोदकृष्णम्भारते अवैधप्रवेशिभ्यः, आतंकवादिभ्यस्तालिबानिभ्यो न -आचार्य प्रमोदकृष्णम् संभलम्, 2 दिसंबरमासः (हि.स.)। उत्तरप्रदेशस्य संभलजनपदस्य श्रीकल्किधाम्नः पीठाधीश्वरः आचार्यः प्रमोदकृष्णम् इति एसआईआर विषयकप्र
फोटो


मानसिक संतुलनमत्यजत् विपक्ष-आचार्य प्रमोदकृष्णम्भारते अवैधप्रवेशिभ्यः, आतंकवादिभ्यस्तालिबानिभ्यो न -आचार्य प्रमोदकृष्णम्

संभलम्, 2 दिसंबरमासः (हि.स.)। उत्तरप्रदेशस्य संभलजनपदस्य श्रीकल्किधाम्नः पीठाधीश्वरः आचार्यः प्रमोदकृष्णम् इति एसआईआर विषयकप्रकरणे विपक्षस्य भावनां प्रति तीक्ष्णां प्रतिक्रियाम् व्यक्तवान्। सः अवदत् यत् वस्तुतः विपक्षः भारतं बाङ्ग्लादेशरूपेण परिवर्तयितुम् इच्छति किन्तु कदापि सफलो न भविष्यति। सः इत्यपि अवदत् यत् बिहारनिर्वाचने प्राप्तां पराजयं गोपयितुं विपक्षेन एसआईआर विषयः उत्तोल्यते।

संभलजनपदे ऐंचौडा कम्बोह क्षेत्रे स्थिते श्रीकल्किधामे आयोजिते पत्रकारसम्मेलने आचार्यकृष्णम् अवदत् यत् विपक्षनेतारः स्वस्य मानसिकसंतुलनम् अपहृतवन्तः। तेन एसआईआर इति भारतस्य ऐक्यस्य लोकतन्त्रस्य च कृते अत्यावश्यकं इति अभिहितम्। आचार्यः पुनः अवोचत् यत् विपक्षः बिहारपराजयं सहनुं न शक्नोति अत एव एतत् विषयम् आश्रित्य जनमानसाम् उद्बोधनम् इच्छति।

आचार्यकृष्णम् सशक्तविपक्षस्य आवश्यकतां प्रतिपादयन् अवदत् यत् नरेंद्रमोदिनम् अपशब्दैः उद्दिश्य निन्दनम् वा सर्वोच्चन्यायालयं संवैधानिकसंस्थाः चुनावआयोगं च चोर इति कथनं विपक्षत्वं नास्ति। भारतस्य आवश्यकता एकस्य सशक्तस्य विपक्षस्य अस्ति न तु पागल अथवा दिवालिय विपक्षस्य। आचार्येण आरोपितम् यत् विपक्षः एतद्राष्ट्रं बाङ्ग्लादेशरूपेण कर्तुम् उद्युक्तः।

तेन स्पष्टतया उक्तम् यत् एसआईआर राष्ट्रहिते स्थितम् अस्ति तथा च यः भारतीयः स एव भारतदेशे वसतु इति। आचार्यकृष्णम् दृढतया अवदत् यत् भारतभूमिः अवैधप्रवेशिनां आतङ्कवादिनां तालिबानिसम्बद्धानां वा कृते नास्ति।

ममता बैनर्जिना एसआईआर विषये प्रतिपक्षभावस्य प्रदर्शनस्य विषये पृष्टे आचार्यकृष्णम् अवदत् यत् सा आईएसआई पाकिस्तान बाङ्ग्लादेशानां भाषाम् उक्तवती। तेन ममता बैनर्जी इत्यस्याः प्रति उपदिष्टम् यत् सा स्ववाक्ये संयमं धारयेत् सावधानतया वदेत् च यतः सा महती नेतृस्त्री अस्ति।

हिन्दुस्थान समाचार