सिद्धता एव छात्रं सङ्कट-समये निर्णायकं करोति - रेखागुप्ता
नवदेहली, 02 दिसंबरमासः (हि.स.)। देहलीसर्वकारस्य मुख्यमन्त्री रेखा गुप्ता मङ्गलवारे अवदत् यत् पूर्वमेव सज्जः विद्यार्थी एव क्लेशपूर्णस्थितिषु सम्यक् निर्णयं कर्तुं समर्थो भवति। मुख्यमन्त्रिणा एतद् वाक्यम् ‘डिजास्टर् रेडी स्कूल्’ इति अभियानस्य उद्घाट
दिल्ली की मुख्यमंत्री रेखा गुप्ता


नवदेहली, 02 दिसंबरमासः (हि.स.)। देहलीसर्वकारस्य मुख्यमन्त्री रेखा गुप्ता मङ्गलवारे अवदत् यत् पूर्वमेव सज्जः विद्यार्थी एव क्लेशपूर्णस्थितिषु सम्यक् निर्णयं कर्तुं समर्थो भवति। मुख्यमन्त्रिणा एतद् वाक्यम् ‘डिजास्टर् रेडी स्कूल्’ इति अभियानस्य उद्घाटने विडियो–सन्देशे उक्तम्। एषः उपक्रमः देहली–सर्वकारस्य राष्ट्रीय–आपद्–व्यवस्थापन–प्राधिकरणस्य (एन्.डी.एम्.ए.) सहकार्ये आरब्धा अस्ति, यस्य मुख्यो उद्देश्यः दिल्लीस्थितेषु प्रतिक्षालयेषु छात्रान् आपदास्थितौ अधिकं सुरक्षितान् सक्षमांश्च कर्तुम् अस्ति।

सा अवदत्— “भवतः तैयारी भवतः विद्यालयं, भवतः नगरं, भवतः भविष्यं च सुरक्षितं करोति।” अतः विद्यालयेषु आपद्–व्यवस्थापन–सम्बद्धं विशेषप्रशिक्षणम्, नित्याभ्यासः, आवश्यकशिक्षणं च दीयते, येन प्रत्येकः बालकः संकटकाले स्वं परान् च सुरक्षितं कर्तुं शक्नुयात्। सा सर्वान् बालकान् प्रति आवेदयत् यत् प्रत्येकां ड्रिल् गंभीरतया कर्तव्या, निदेशानां पालनं करणीयम्, उत्तरदायित्वेन वर्तनम्, सुरक्षितगमनम्, सतर्कभावना च आवश्यकाः।

रेखा गुप्ता एतस्य कार्यक्रमस्य केन्द्रस्थाने बालकानाम् सुरक्षा, तेषाम् अवगमः, आत्मविश्वासः च सर्वाति–महत्त्वपूर्णाः इति अवोचत्। सा स्वसन्देशे अवदत् यत् प्रधान मन्त्री नरेन्द्र मोदी उक्तवन्तः— “सज्जता एकः व्यवहारः भवेत्” इति, देशं च आपदाकाले ‘शून्य–हानि–लक्ष्य’ दिशि नयितुम् अपेक्षितम्। मुख्यमन्त्रिणा एषा भावना उत्तरदायिनी आत्मविश्वसिनी च विकसित–भारतस्य मार्गः इति निर्दिष्टा। अधुना देहली–सर्वकारः एन्.डी.एम्.ए. च मिलित्वा विद्यालयान् सम्यक् सुरक्षा–उपायान् शिक्षयन्ति, परन्तु मुख्यमन्त्रिणा बालकेभ्यः स्वीयभूमिकां गंभीरतया निर्वहणीया इति विशेषतया आवेदितम्। ---------------

हिन्दुस्थान समाचार / अंशु गुप्ता