Enter your Email Address to subscribe to our newsletters

नवदेहली, 2 दिसंबरमासः (हि.स.)। भारतीय-रेलमर्गेण तमिलनाडु-प्रदेशस्य कन्याकुमारी, चेन्नै तथा कोयम्बटूर-प्रदेशेभ्यः उत्तरप्रदेशस्य वाराणस्याः प्रति काशी-तमिल-सङ्गमम् ४.० इत्यस्य व्यापक-जनभागीदारीं सुनिश्चितुं सप्त विशेष-रेलयानानां संचालनं प्रारब्धम् अस्ति। अस्य उद्देश्यः तमिलभाषी-प्रदेशानां काशी-प्रदेशस्य च मध्ये सांस्कृतिक-संबन्धान् अधिकं सुदृढीकरणं, प्रतिभागिभ्यः सुगमं, सुरक्षितं समयबद्धं च यात्रा-सेवनं उपलब्धकरणं च अस्ति।
रेल-मन्त्रालयेन मंगलवासरे उक्तम् यत् विशेष-सेवानाम् आरम्भः नवम्बर-मासस्य उन्नत्रिंशतितमे दिने कन्याकुमारीतः प्रथमार्थ-रेलगामिन्या प्रस्थानस्य सह अभवत्। ततः अद्य चेन्नैतः अपरं विशेष-रेलयानं रवितम्। आगामि-प्रस्थानानि क्रमशः दिसंबर-मासस्य तृतीयदिनम् कोयम्बटूरतः, षष्ठदिनं चेन्नैतः, सप्तमदिनं कन्याकुमारीतः, नवमदिनं कोयम्बटूरतः, द्वादशदिनं चेन्नैतः च नियोजितानि सन्ति। एवमेव समग्रेण सप्त विशेष-रेलयानानि तमिलनाडु-प्रदेशस्य प्रमुख-नगरभ्यः क्रमशः वाराणसी-प्रदेशस्य प्रति सञ्चलिष्यन्ति। प्रतिभागिनां प्रतिनिवर्तन-यात्रां सुगमां कर्तुं रेलमार्ग-विभागेन वाराणस्याः (बनारसतः) अपि विशेष-रेलयान-व्यवस्था कृता अस्ति। तासु पञ्चमदिने दिसंबर-मासस्य कन्याकुमारी-प्रति, सप्तमदिने चेन्नइम्-प्रति, नवमदिने कोयम्बटूर-प्रति च सेवाः सम्मिलिताः सन्ति। तदनन्तरं एकादश, त्रयोदश, पञ्चदश, सप्तदश दिनाङ्केषु अपि चेन्नै, कन्याकुमारी, कोयम्बटूर-प्रदेशेभ्यः प्रत्यागमन-सेवाः सञ्चाल्यन्ते।
रेलवे-इत्यस्य अनुसारम्, अद्य आरब्धम् काशी-तमिल-सङ्गमम् ४.० तमिलनाडु-प्रदेशस्य काशी-प्रदेशस्य च ऐतिहासिक-सांस्कृतिक-सम्बन्धान् अधिकं प्रगाढीकरणस्य प्रयासः अस्ति। अस्य वर्षस्य विषयः—
“Let us learn Tamil – तमिल् करकलम्”,यस्यां श्रेण्यां वाराणसी-प्रदेशस्य विद्यालयेषु तमिल-शिक्षण-पहलः, काशी-प्रदेशीय-विद्यार्थिनां तमिलनाडु-प्रदेशभ्रमणम्, तेनकाशीतः काशीपर्यन्तं ‘सन्त-अगस्त्य-वाहन-यात्रा’ इत्यादयः कार्यक्रमाः आयोजनसूचौ सन्ति।
शिक्षा-मन्त्रालयस्य नेतृत्वे आयोजितेऽस्मिन् कार्यक्रमे आई.आई.टी.-मद्रास्, काशी-हिन्दू-विश्वविद्यालयः च प्रमुख-ज्ञान-सहभागिनौ स्तः, यत्र रेलमन्त्रालयं सहितानि दश-मन्त्रालयानि सहभागित्वेन अस्य आयोजनस्य व्यापकत्वं वर्धयन्ति। अस्मिन् कार्यक्रमे उभयोः प्रदेशयोः छात्राः, शिल्पिनः, विद्वांसः, अध्यापकाः, सांस्कृतिक-आध्यात्मिक-प्रतिनिधयः च सम्मिलन्ति।
------------
हिन्दुस्थान समाचार / अंशु गुप्ता