Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 02 दिसंबरमासः (हि.स)।
रामकृष्ण चन्दरो मङ्गलवासरे सार्वजनिकक्षेत्रस्य बीमासंस्थायाः भारतीयजीवनबीम निगमस्य एलआईसी इत्यस्य प्रबन्धनिदेशकस्य एमडी इति पदं ग्रहणम् अकुर्वन्। चन्दर महोदयः एके डिसेम्बर मासात् प्रबन्धनिदेशकपदे नियुक्ताः।
बीमासंस्थया उक्तं यत् भारतसरकारस्य अधिसूचनानुसारं तेषां प्रबन्धनिदेशकपदे नियुक्तिः कृता। चन्दर महोदयस्य एषा नियुक्तिः भारतसरकारस्य अधिसूचनानन्तरं सम्पन्ना। प्रबन्धनिदेशकपदप्राप्तेः पूर्वं ते एलआईसी संस्थायाः मुख्यनिवेशअधिकारी CIO तथा निवेश विभागस्य फ्रन्ट ऑफिस कार्यकारी निदेशक इति पदयोः कार्यं कृतवन्तः।
रामकृष्णन् चन्दर महोदयः वर्षे 1990 एकस्मिन् सहायकप्रशासनिकाधिकारीपदे प्रवेश्य एलआईसी संस्थायां कार्यारम्भं कृतवन्तः। तेन वरिष्ठमण्डलप्रबन्धकः इति पदं विपणनं पेंशन समूहयोजनानां क्षेत्रीयप्रबन्धकः अन्तरराष्ट्रीयसञ्चालनार्थं एलआईसी संस्थायाः रणनीतिकव्यापारएककस्य कार्यकारी निदेशकः इति बहुषु महत्वपूर्णेषु पदेषु सेवां कृत
वती।
---------------
हिन्दुस्थान समाचार