Enter your Email Address to subscribe to our newsletters

जयपुरम्, 2 दिसंबरमासः (हि.स.)।
राजस्थानलोकसेवायोगेन अनुसंधानसहायक मूल्यांकनविभाग प्रतियोगीपरीक्षा द्विसहस्रचतुर्विंशति वर्षस्य पदार्थं विचारितसूची प्रकाशिताः। अस्मिन् सूचौ त्रयस्त्रिंशदभ्यर्थिनः पात्रतापरीक्षणार्थं अस्थायीरूपेण सम्मिलिताः। विस्तृता सूचना आयोगस्य जालपुटे उपलब्धा अस्ति।
आयोगसचिवेन उक्तं यत् एषा सूची चयनप्रक्रियायां सहभागीभूतानां अभ्यर्थिनां पात्रतासुनिश्चित्य केवलं दस्तावेजसत्यापनस्य निमित्तं प्रकाशिताः। एषा न चयनसूची न वा वरीयतासूची। अन्ते सफलाभ्यर्थिनां सूची सम्बन्धितविभागेन दस्तावेजसत्यापनं कृत्वा पश्चात् आयोगेन प्रकाश्यते।
उक्तविषये विचारितसूचौ यैः अभ्यर्थिभिः नामानि संलग्नानि तैः विस्तृतमावेदनपत्रं ऑनलाइन पूरणीयम्। अस्य आवेदनपत्रस्य ऑनलाइन पूरणस्य उपसन्धिः आगामि पञ्चमदिनाङ्कात् एकादशदिसम्बरदिनाङ्कपर्यन्तं उपलब्धः भविष्यति। अभ्यर्थिभिः ऑनलाइनआवेदनस्य दस्तावेजसत्यापनस्य च विषयेषु आयोगेन प्रदत्तानां निर्देशानां पालना अनिवार्यतया करणीयम्।
---------------
हिन्दुस्थान समाचार