संचारसाथी-ऐप् विषये विपक्षः जनान् भ्रान्तेति—सिन्धिया
नवदेहली, 02 दिसम्बरमासः (हि.स.)। केन्द्रीयसञ्चार-उत्तरपूर्वप्रदेशविकासमन्त्री ज्योतिरादित्यः सिन्धिया मङ्गलवासरे ‘संचारसाथी-ऐप्’ विषयक-विपक्षप्रश्नान् प्रति उवाच यत् अस्मिन् विषये विपक्षः जनान् भ्रमयति। सिन्धिया संसदीयभवनपरिसरे पत्रकारान् प्रति अवद
केंद्रीय दूरसंचार मंत्री ज्योतिरादित्य सिंधिया


नवदेहली, 02 दिसम्बरमासः (हि.स.)। केन्द्रीयसञ्चार-उत्तरपूर्वप्रदेशविकासमन्त्री ज्योतिरादित्यः सिन्धिया मङ्गलवासरे ‘संचारसाथी-ऐप्’ विषयक-विपक्षप्रश्नान् प्रति उवाच यत् अस्मिन् विषये विपक्षः जनान् भ्रमयति। सिन्धिया संसदीयभवनपरिसरे पत्रकारान् प्रति अवदत् यत् सदने सः अस्य ऐपस्य उपयोगितां तथा उपभोक्तृणां कृतं सुरक्षित्युपकारं विस्तरेण निरूपितवान्। ‘संचारसाथी-ऐप्’ न कश्चन जासूसी-वा आह्वान-निरीक्षण-साधनं, अपि तु जनभागीदारी-सिद्धान्ताधारितं सुरक्षा-उपायम्। मन्त्री अवदत्— “उपभोक्तॄणां साहाय्यं कर्तुं तथा तेषां सुरक्षां द्रष्टुम् अस्माकं दायित्वम् अस्ति। संचारसाथी एकः ऐपः एकं पोर्टलम् च अपि अस्ति, यस्याधारे प्रत्येकः उपभोक्ता स्वहस्तेन स्वसुरक्षां कर्तुं शक्नोति। एषः जनभागीदारीया एकं सोपानम् अस्ति।”

सः अपि अवदत् यत् अस्य सोपानस्य जनैः स्वागतं कर्तव्यम्, न तु विरोधः। अस्य ऐपस्य उपयोगः ऐच्छिकः अस्ति—यदि इच्छसि तर्हि सक्रियं कुरु, यदि न इच्छसि तर्हि न कुर्यात्।

सिन्धिया अवदत् यत् अस्मिन् पोर्टलेन नागरिकाः धोखाधीन् कृताः रक्षिताः सन्ति। जनभागीदारीया आधारभूतेन अद्यावधि प्रायः 1.75 कोटि-प्रवञ्चनात्मकाः चलदूरभाष-संयोजना निष्क्रियीकृता: सन्ति। प्रायः 20 लक्ष चोरित-दूरभाषाः अन्वेषिताः सन्ति, तेषु 7.5 लक्ष दूरभाषाः सफलतया उपभोक्तृभ्यः प्रत्यर्पिताः सन्ति। उपभोक्तृ-प्रतिवेदन-परिचयाधारेण 21 लक्ष दूरभाषाः निष्क्रियीकृताः सन्ति। वर्षे 2024 तु देशान्तर्गते 22,800 कोटि-रुप्यकपर्यन्तं कपटः अभवत्।

मन्त्री आरोपं कृतवान् यत् यदा विपक्षस्य वास्तविक-विषयः न भवति, तदा एतादृशीः भ्रान्तयः प्रसार्यन्ते। एताः सर्वाः भ्रान्तयः दूरयितुं सर्भकारस्य दायित्वम् अस्ति। सः जनानां पुरतः सर्वाणि तथ्याणि प्रस्तुतवान्। सर्वकारस्य प्रमुखं लक्ष्यं दूरसञ्चार-संसाधनानां दुरुपयोगात् उद्भवमानान् साइबर-प्रवञ्चनान्, कूकालान् (फर्जी कॉल), चलदूरभाषा-चौर्यं च निरोद्धुम् अस्ति। एतेन ऐपेन उपभोक्तॄणां कृते स्वनाम्ना निर्गतानां सर्वेषां चलदूरभाष-संयोजनानां विवरणदर्शनम्, संदिग्ध-संयोजनानां निरसनम्, चोरित-दूरभाषानां अवरोधनम्, तथा आईएमईआई-सङ्ख्यायाः प्रामाणिकतानिरीक्षणं च सुलभम् अस्ति। अपरतः विपक्षीय-दलैः एषः ऐपः जासूसी इति कथ्यते, तथा सर्वकारं प्रति आरोपः क्रियते यत् साइबर-सुरक्षाया आडेन सर्वकारः नागरिकानां दूरभाषेषु प्रवेशषयितुं प्रयतते।

हिन्दुस्थान समाचार / Dheeraj Maithani