Enter your Email Address to subscribe to our newsletters

संभलम्, २ दिसम्बरमासः (हि.स.)। कल्किपीठाधीश्वरः आचार्यः प्रमोदकृष्णः विपक्षपक्षीयानां मानसिकसमत्वनाशं आरोप्य ममताबैनर्जी इत्यस्याः वक्तव्यानि आईएसआई-प्रतिनिधीनां भाषा इति अवदत्। आचार्यः अवोचत्— एस॰आई॰आर् राष्ट्रहिताय आवश्यकम्, यश्च भारतभूमौ जातः स एवात्रैव वसेत्। विपक्षदलाः भारतं बाङ्ग्लादेशरूपं कर्तुमिच्छन्ति इति च ते व्याहृतवन्तः।
मंगलवारे उत्तरप्रदेशस्य सम्भलजनपदे एञ्चौडा-कम्बोहस्थे कल्किधाम्नि आयोजितायां पत्रकारपरिषदि आचार्येण एस॰आई॰आर् विरोधे विपक्षस्य मतानां विषये प्रतिक्रियाः दीयन्ते स्म। सः अवदत्— एसआईआर् राष्ट्रहिताय अनिवार्यम्। भारतभूमिः न अनधिकृतप्रवेशकानाम्, न आतंकवादिनाम्, न च तालिबानानाम्। बिहारचुनावेषु प्राप्ता पराजयः गोप्यते इत्यतः विपक्षेन एसआईआर् विषयः अनावश्यकतया उत्तोल्यते इति च आचार्यः उक्तवान्। तस्य मतम्— विपक्षनेता मानसिकसमत्वं नष्टवन्तः; एसआईआर् भारतस्य ऐक्यस्य, लोकतन्त्रस्य च संरक्षणाय आवश्यकः।
आचार्यः कृष्णः पुनरपि अवोचत्— नरेन्द्रमोदिनिन्दा, सर्वोच्चन्यायालयस्य, संवैधानिकसंस्थापनां च अपमाननम्, निर्वाचन-आयोगस्य चौरत्वारोपणम्— एतानि विपक्षस्य कर्तव्यं न भवितुमर्हन्ति। भारतस्य आवश्यकता अस्ति सशक्तस्य विपक्षस्य, न तु उन्मत्तस्य वा दिवालियस्य विपक्षस्य।ममताबैनर्जी एसआईआर् विरोधवक्तव्ये प्रश्ने सः अवदत् सा आईएसआई-पाकिस्तान-बाङ्ग्लादेशानां भाषा वदति इति। स्ववक्तव्येषु संयमं धारयितुं, सावधानतया भाषितुं च ममतायै उपदेशं दत्तवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता