गुरुकुलस्य यष्टिक्रीडादलम् अन्तिमस्पर्धां प्रति प्राप्तम्।
हरिद्वारम् 2 दिसंबरमासः (हि.स.)। भारतसर्वकारस्य युवा-क्रीडा-मन्त्रालयेन जयपुरनगर्यां प्रवर्तमाने खेलो इंडिया यूनिवर्सिटी गेम्स–२०२५ इति प्रतिस्पर्धायाः मंगलवासरसमये सम्पन्ने यष्टिक्रीडायाः अर्धसमाप्तिस्पर्धायां गुरुकुलकाङ्कडी समविश्वविद्यालयस्य दलम
फाइनल में पहुंची गुरुकुल विवि की टीम


हरिद्वारम् 2 दिसंबरमासः (हि.स.)। भारतसर्वकारस्य युवा-क्रीडा-मन्त्रालयेन जयपुरनगर्यां प्रवर्तमाने खेलो इंडिया यूनिवर्सिटी गेम्स–२०२५ इति प्रतिस्पर्धायाः मंगलवासरसमये सम्पन्ने यष्टिक्रीडायाः अर्धसमाप्तिस्पर्धायां गुरुकुलकाङ्कडी समविश्वविद्यालयस्य दलम् बैङ्गलोरसिटीनगरस्य दलम् २–० इति अङ्केन पराजित्य अन्तिमस्पर्धायां स्थानम् अधिगतवन्तः।

गुरुकुलकाङ्कडीदलेन स्वस्य पूले लवली प्रोफेशनल यूनिवर्सिटी, फग्वाडा इति टीमं ३–२ इति, तथा बैङ्गलोरसिटी दलम् २–० इति पराजयित्वा अन्तिमस्पर्धायां प्रवेशः कृतः। यष्टिक्रीडादलस्य प्रशिक्षकः दुष्यन्तसिंह राणा इत्यनेन सूचितं यत् अन्तिमस्पर्धा श्वः भविष्यति। दलव्यवस्थापकः अश्वनीकुमार, तथा डा°. अजयमालिक इत्येताभ्यां दलस्य उत्कृष्टप्रदर्शनस्य प्रशंसा कृता।

खेलो इंडिया यूनिवर्सिटी गेम्स–२०२५ इत्यस्य अन्तिमस्पर्धायां दलस्य प्रवेशे समविश्वविद्यालयस्य कुलपतिः प्रो°. प्रतिभा एम्. लूथरा इत्यनेन उक्तम्— “एषा उपलब्धिः गुरुकुलकुटुम्बस्य गौरवस्य मानस्य च विषयः। एतत् केवलं क्रीडकानां क्रीडापटुता, दलप्रबन्धनस्य च समन्वयेन सम्भवितम्।” कुलसचिवः तथा सचिवः क्रीडापरिषद् प्रो°. विपुलशर्मा, संयोजकः डा°. शिवकुमारचौहान, डा°. कपिलमिश्रः, डा°. अनुजकुमारः, डा°. प्रणवीरः, इत्येतेषां सहिताः अध्यापकाः, कर्मचारिणश्च क्रीडकान् अस्याः उपलब्धेः निमित्तं अभिनन्दितवन्तः।

हिन्दुस्थान समाचार / Dheeraj Maithani