महाराष्ट्रे नगर निकायनिर्वाचनाय मतदानं शुभारब्धम्
मुंबई, 02 दिसंबरमासः (हि.स.)। महाराष्ट्रे मंगलवारदिने प्रातःकाले आरभ्य षट्सहस्राः अष्टशतनवत्युत्तर षट्चत्वारिंशत् पार्षदाः द्विशत् अष्टाष्टाधिकाः अध्यक्षाश्च निर्वाचनार्थं द्विशत् द्विचत्वारिंशत् नगरपरिषद्सु द्विचत्वारिंशच्चत्वारिंशत् नगरपञ्चायता
महाराष्ट्रे नगर निकायनिर्वाचनाय मतदानं शुभारब्धम्


मुंबई, 02 दिसंबरमासः (हि.स.)।

महाराष्ट्रे मंगलवारदिने प्रातःकाले आरभ्य षट्सहस्राः अष्टशतनवत्युत्तर षट्चत्वारिंशत् पार्षदाः द्विशत् अष्टाष्टाधिकाः अध्यक्षाश्च निर्वाचनार्थं द्विशत् द्विचत्वारिंशत् नगरपरिषद्सु द्विचत्वारिंशच्चत्वारिंशत् नगरपञ्चायतासु च मतदानकार्यं प्रचलति। राज्यनिर्वाचनआयोगस्य कथनुसारं मतदानगतिः अत्यन्तं मन्दं वर्तते, येन प्रभाते नववादने केवलं षड् दशमांश एकं प्रतिशतमानं मतदानं निबद्धम् आसीत्।

राज्यनिर्वाचनआयोगस्य अनुसारं मंगलवारदिने प्रातःदशवादनपर्यन्तं सिंधुदुर्गजनपदे सर्वाधिकं त्रयोदश दशमांश द्विचत्वारिंशत् प्रतिशतं, कोल्हापुरे द्वादशप्रतिशतं, पंढरपुरे पञ्च दशमांश द्वि प्रतिशतं, नांदगावे न्यूनतमं त्रि दशमांश चत्वारि प्रतिशतं, जलगावे षट् प्रतिशतं, नासिके सप्त दशमांश पंचविंशतिप्रतिशतं, लातूरे द्वादशप्रतिशतं, अहिल्यानगरे द्वादशप्रतिशतं, पुण्यां अष्टप्रतिशतं च मतदानं निबद्धम्।

महाराष्ट्रराज्यस्य अनेकासु जिलासु न्यूनातिन्यूनं विंशतिः नगरपरिषदां निर्वाचनप्रक्रियायाः विकृतिहेतोः निर्वाचनं निरस्तम्। एतेषु परिषद्भागेषु अधुना द्वादश मासस्य विंशतितमे दिनाङ्के मतदानं भविष्यति। तेषु पुणे जनपदे बारामती तथा तलेगाव्, अहिल्यानगरे देवलालि कोपरगाव् नेवासा पाथर्डि, सतारे फलटन महाबलेश्वर, यवत्माले डिग्रास् पंढरकावड वनि, चन्द्रपुरे घुग्गुस् गडचन्दूर् मूल्, अकोले बालापुरम्, अमरावत्यां अञ्जनगाव् सूरजि, धाराशिवे धाराशिवम्, सोलापूरे मंगलवेढा, ठाणेजनपदे बदलापुरम्, नांदेड़े मुरखेड़् धर्माबाद् इति सम्मिलितानि।

---------------

हिन्दुस्थान समाचार