Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, 2 दिसंबरमासः (हि.स.)। मुख्यमन्त्रिणः योगी-आदित्यनाथस्य अध्यक्षतेः अधः मङ्गलवारे अत्र लोकभवने मन्त्रिमण्डलस्य सभा अभवत्। सभायां बहवः महत्वपूर्ण-निर्णयाः अनुमोदिताः। मन्त्रिमण्डलस्य समीपे प्रस्तुतानां विंशतिः प्रस्तावानां मध्ये विकास-संबद्धानां संगठनात्मक-सुधार-संबद्धानां च उन्नविंशतिः प्रस्तावान् मन्त्रिमण्डलम् अनुमन्यते। तेषु अयोध्यायां मन्दिर-संग्रहालय-निर्माणस्य, राज्ये प्रत्येकं मण्डल-मुख्यालये जिला-दिव्याङ्ग पुनर्वासकेन्द्रस्थापनस्य, पर्यटनक्षेत्रस्य कृते नूतन-नियमावलि-निर्माणस्य च प्रस्तावाः अनुमताः।
हिन्दुस्थान समाचार / अंशु गुप्ता