Enter your Email Address to subscribe to our newsletters

कोलकाता, 20 दिसंबरमासः (हि.स.)।
भारतीयजनतापक्षस्य (भा.ज.पा.) सहपर्यवेक्षकः तथा सूचना-प्रौद्योगिकीकोष्ठस्य प्रमुखः अमित् मालवीयः शनिवासरे सामाजिकमाध्यमे “एक्स्” इति मंचे प्रकाशितेन लेखेन बाङ्गलादेशे पश्चिमबङ्गे च हिन्दूनां विरुद्धं कथितहिंसाप्रकरणेषु गभीरां चिन्तां प्रकटितवान्। सः अवदत् यत् बाङ्गलादेशे दलितहिन्दोः दीपुचन्द्रदासस्य हत्या अन्तरात्मानं कम्पितवती अस्ति। मालवीयस्य कथनानुसारं दीपुचन्द्रदासं चरमपन्थिभिः आक्रम्य पश्चात् अग्नौ क्षिप्तवन्तः, येन तस्य मृत्युः अभवत्।
अमित् मालवीयः पश्चिमबङ्गस्य मुर्शिदाबादप्रदेशे घटितस्य अन्यस्य अपि घटनायाः उल्लेखं कृतवान्। सः अलिखत् यत् जनाः हरगोविन्ददासस्य तस्य पुत्रस्य च चन्दनदासस्य नृशंसां हत्यां विस्मर्तुं न शक्नुवन्ति। कथ्यते यत् तौ स्वगृहात् बलात् बहिः आनीतौ मुस्लिमकट्टरपन्थिभिः हतौ। मालवीयः प्रमाणितवान् यत् एतासु घटनासु समानता दृश्यते तथा च एताः हिन्दूनां विरुद्धं लक्षितहिंसायाः भयावहं प्रारूपं सूचयन्ति।
स्वीयलेखे भा.ज.पा. सूचना-प्रौद्योगिकीकोष्ठप्रमुखः अवदत् यत् पश्चिमबङ्गे हिन्दूनां सुरक्षा सम्मानं च सर्वोच्चप्राथमिकतारूपेण स्वीकरणीयम्। अप्रत्यक्षरूपेण मुख्यमन्त्रीं ममता बनर्जीम् उद्दिश्य सः अवदत् यत् राजनीतिकगणनाः कदापि विधिव्यवस्थायाः मानवाधिकाराणां च उपरि न स्थापनीयाः। तस्य आरोपः आसीत् यत् मौनम् अथवा अस्वीकारः तादृशान् तत्त्वान् प्रोत्सहयति, ये हिंसां स्वीकर्तुं योग्यां मन्यन्ते।
अमित् मालवीयः अपि अवदत् यत् बङ्गालीहिन्दवः स्वदुःखस्य पीडायाश्च उपेक्षायाः भारीमूल्यं दातुं बाध्यन्ते। सः बलं दत्तवान् यत् अधुना समयः आगतः अस्ति यदा उत्तरदायित्वं निश्चितं क्रियेत, पीडितेभ्यः न्यायः लभ्येत, हिन्दूनां च सुरक्षा सुनिश्चिता भवेत्।
तथापि, वार्तालेखनसमये तृणमूलकाङ्ग्रेस्पक्षतः मालवीयस्य अस्य वक्तव्यस्य विषये काचिदपि प्रतिक्रिया न प्राप्ता आसीत्।
---------------
हिन्दुस्थान समाचार