वैश्विके बाजारे प्रतिस्पर्धायां स्थितिं धर्तुं वस्त्रोद्योगेन स्वीयां तकनीकीक्षमतां वर्धयितव्या — गिरिराजसिंहः
नवदेहली, 20 दिसंबरमासः (हि.स.)। केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः शनिवासरे उक्तवान् यत् वैश्विकपटलि प्रतिस्पर्धायां स्थितिं धारयितुं वस्त्रोद्योगैः स्वीयाः तकनीकीक्षमताः वर्धयितव्याः। वस्त्रोद्योगे अधिकपरिवर्तनसाधनाय सः अनुसन्धान–नवाचारयोः विशेषं
केन्द्रीय कपड़ा मंत्री गिरिराज सिंह


नवदेहली, 20 दिसंबरमासः (हि.स.)। केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः शनिवासरे उक्तवान् यत् वैश्विकपटलि प्रतिस्पर्धायां स्थितिं धारयितुं वस्त्रोद्योगैः स्वीयाः तकनीकीक्षमताः वर्धयितव्याः। वस्त्रोद्योगे अधिकपरिवर्तनसाधनाय सः अनुसन्धान–नवाचारयोः विशेषं बलं दत्तवान्। वस्त्रमन्त्री अद्य दिल्लीनगरे आयोजितायां वस्त्र-अनुसन्धान-सङ्घानां प्रथमायां संयुक्तसभायाम् एतत् अभिहितवान्। एषा सभा वस्त्रमन्त्रालयेन आयोजिताऽभवत्। तत्र सततता (सस्टेनेबिलिटी), नूतनतन्तुनां नवाचारः, तथा वस्त्र-अनुसन्धान-सङ्घानां भूमिका इत्यादयः महत्त्वपूर्णाः विषयाः चर्चिताः।

सः अवदत्— “अनुसन्धानं नवाचारश्च एव सः मार्गः, येन वयं संयुक्तराष्ट्रस्य सततविकासलक्ष्याणि साधयितुं शक्नुमः। एतेनैव ‘अर्थ-ओवरशूट-डे’ इत्यादीनां गम्भीराणां आव्हानानां निवारणं कर्तुं शक्यते। अपि च, नूतनयुगीनानां रेशानां तथा तकनीकीतन्तुनां प्रयोगेणैव वयं वैश्विकबाजारे स्वीयां प्रतिष्ठां स्थापयितुं समर्था भवेम।” मन्त्री अवदत् यत् वंशवृक्षः, सीसलः, हेम्पः, पाइनएप्पल-तन्तुः इत्यादयः प्राकृतिकतन्तवः औद्योगिकप्रयोगाय तथा रोजगारावसरसृजनाय प्रोत्साह्यन्ते। अपि च, रेमी तथा फ्लैक्स इत्यादीनां तन्तूनां उत्पादनं देशे एव वर्धयितुं सर्वकारस्य लक्ष्यं अस्ति, येन व्यापारघाटः न्यूनः भवेत्। सः अवदत् यत् पूर्वं सेनेटरी-नैपकिन्-आयातः क्रियते स्म, किन्तु अधुना स्वदेशीयैः तकनीकीतन्तुभिः आयातः न्यूनः जातः। अधुना तेषां ‘निष्कासनम्’ तथा ‘अपशिष्टप्रबन्धनम्’ इति चुनौती अस्ति, यस्य समाधानाय जलविलेयतन्तुषु कार्यं क्रियते। अपि च, हाइड्रोजन-ईन्धन-सञ्चयाय कार्बन-तन्तु-निर्मितानाम् अनिलकोषानां निर्माणे विशेषः आग्रहः क्रियते।

वस्त्रमन्त्रालयस्य सचिव नीलम-शमी-रावः अन्यैः वरिष्ठाधिकारिभिः सह अनुसन्धान-सङ्घान् चेतयित्वा अवदत् यत् यावत् अनुसन्धानं प्रयोगशालायाः बहिर्गत्वा उद्योगक्षेत्रे तथा बाजारे न प्राप्नोति, तावत् तत् सफलं न भवति। तेन टीआरए, एटीआईआरए, एसआईटीआरए तथा एनआईटीआरए इत्यादीनां सर्वेषां संस्थानां संयुक्तरूपेण कार्यकरणाय परामर्शः दत्तः, तथा एमएमएफ् एवं नूतनयुगीनतन्तुषु चीनादिदेशैः सह तीव्रस्पर्धायाः सम्मुखीकरणाय वेगवर्धनस्य आवश्यकता प्रतिपादिता।

उल्लेखनीयम् अस्ति यत् वस्त्रमन्त्रालयस्य भारतं द्वादशमासान् उपयोगयोग्य-वस्त्राणां ‘वैश्विककेन्द्रम्’ (ग्लोबल् हब्) कर्तुं स्वप्नं वर्तते। अस्य साधनाय राष्ट्रिय-तकनीकी-वस्त्रमिशनं तथा पीएलआई-योजना च अधिकदृढतया कार्यान्वितुं विशेषं बलं दत्तम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता