Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 20 दिसंबरमासः (हि.स.)।
शनिवासरे इन्दिरा–प्रियदर्शिनी–क्रीडाङ्गण–परिसरे स्थिते क्रीडा–युवा–कल्याण–विभागस्य कार्यालये जिलास्तरीय–युवा–महोत्सवस्य गरिमामयः उत्साहपूर्णश्च आयोजनं सम्पन्नम्। महोत्सवस्य समापनावसरे विजेतृभ्यः पुरस्काराः प्रदत्ताः। अस्मिन् अवसरे जगदलपुर–विधानसभासदस्यः किरणदेवः मुख्यातिथिरूपेण, तथा जिलापञ्चायतसदस्यः क्रीडा–युवा–कल्याण–समितेः सभापतिः बनवासी–मौर्यः अध्यक्षरूपेण उपस्थितौ आस्ताम्। अस्य महोत्सवस्य मुख्योद्देश्यः जनपदस्य उदयमानानां युवा–प्रतिभानां कृते मंचं प्रदाय तेषां मनोबलवर्धनं कर्तुम् आसीत्।
कार्यक्रमं सम्बोधयन् जगदलपुर–विधायकः किरणदेवः युवानां प्रति स्वीयं विशेषं स्नेहं व्यक्तवान्। स्वीयविलम्बार्थं क्षमायाचनां कृत्वा सः अवदत् यत् अत्यन्तव्यस्तकार्यक्रमेषु अपि बस्तरप्रदेशस्य प्रतिभाशालिभिः युवाभिः सह सङ्गमनस्य अवसरं सः कदापि परित्यक्तुं न इच्छति। सः अवदत् यत् बस्तरप्रदेशः कला–संस्कृति–प्रतिभाभिः सम्पन्नः अञ्चलः अस्ति तथा अत्रत्येषु युवासु अपाराः सम्भावनाः सन्ति।
अस्मिन् अवसरे किरणदेवः अपि अवदत् यत् बस्तरे शीघ्रमेव “बस्तर–पण्डूम्” नामकः भव्यः उत्सवः आयोजितः भविष्यति, येन क्षेत्रीयसंस्कृतिः प्रतिभाश्च नूतनां पहचानं लप्स्यन्ते। विजेतृ–प्रतिभागिनः अभिनन्द्य तान् निरन्तरं अग्रे गन्तुं तथा अञ्चलस्य नाम उज्ज्वलं कर्तुं प्रेरितवान्, सर्वप्रकारकसहयोगस्य आश्वासनं च दत्तवान्।
क्रीडा–युवा–कल्याण–समितेः सभापतिः बनवासी–मौर्यः स्वीयसम्बोधने शासनद्वारा सञ्चालितानां विविधयुवा–कल्याण–योजनानां विवरणं दत्तवान्। सः अवदत् यत् युवानां उन्नत्यर्थं तथा तेषां कृते उत्तमान् अवसरान् उपलब्धीकर्तुमेव सः समितेः सभापतिपदस्य दायित्वं स्वीकृतवान्। अन्ते सः सर्वेषां प्रतिभागिनां तथा उपस्थितजनानां उज्ज्वलभविष्यस्य कामनां कृत्वा माता दन्तेश्वरीदेव्याः कृपायाः निरन्तरतायै प्रार्थनां कृतवान्।
अस्मिन् अवसरे उपसंग्राहकः नन्दिनी–साहू, शिक्षकगणाः तथा प्रतिभागिनः युवाः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार