मध्यप्रदेशे भोपालमेट्रोसेवायाः अद्य शुभारम्भः, केन्द्रीयमन्त्री मनोहरलालः उद्घाटनं करिष्यति
भोपालम्, 20 दिसंबरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपाल–नगरे अद्य (शनिवासरे) मेट्रोरेलसेवायाः आरम्भः भविष्यति। केन्द्रीय–आवास–एवं–शहरीकार्यमन्त्री मनोहरलालः सायं चतुर्वादने भोपालस्थिते कुशाभाऊ–अन्ताराष्ट्रियसम्मेलनकेन्द्रे अस्याः सेवायाः उद्घाट
भोपाल मेट्रो का शुभारंभ आज


भोपालम्, 20 दिसंबरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपाल–नगरे अद्य (शनिवासरे) मेट्रोरेलसेवायाः आरम्भः भविष्यति। केन्द्रीय–आवास–एवं–शहरीकार्यमन्त्री मनोहरलालः सायं चतुर्वादने भोपालस्थिते कुशाभाऊ–अन्ताराष्ट्रियसम्मेलनकेन्द्रे अस्याः सेवायाः उद्घाटनं करिष्यति। अस्मिन् अवसरे मध्यप्रदेशस्य मुख्यमन्त्री डॉ० मोहनयादवः अपि उपस्थितः भविष्यति। ततः अनन्तरं केन्द्रीय–मन्त्री मनोहरलालः तथा मुख्यमन्त्री डॉ० यादवः सुभाष–मेट्रो–स्थानके हरित–ध्वजं दर्शयित्वा मेट्रो–रेल–यानं प्रेषयिष्यतः। उभौ अपि मेट्रो–रेल–यानस्य यात्रां करिष्यतः। तदनन्तरं उभौ एम्स्–परिसरं गत्वा पत्रकारान् सम्बोधयिष्यतः। अस्मिन् अवसरे प्रदेशस्य नगरीय–विकास–एवं–आवास–मन्त्री कैलाश–विजयवर्गीयः अपि उपस्थितः भविष्यति।

मध्यप्रदेश–मेट्रो–रेल–निगम–लिमिटेडस्य प्रबन्ध–निदेशकः एस्० कृष्ण–चैतन्यः अवदत् यत् मेट्रो–सेवायाः शुभारम्भानन्तरं रविवासरात् (२१ दिसम्बरतः) सामान्य–नागरिकाः अपि अस्यां यात्रां कर्तुं शक्नुवन्ति। तेन अवगतं कृतं यत् मेट्रो–सेवायाः प्रायोरिटी–कॉरिडोर् मध्ये अष्टौ स्थानकानि सन्ति। मेट्रो–सेवायाः संचालन–समयः तथा भाटकनिर्धारणं कृतम् अस्ति। प्रथमचरणे भोपालमेट्रो सुभाषनगरात् एम्स्–पर्यन्तं सञ्चालिता भविष्यति। मेट्रो–सेवा प्रातः नववादनात् सायं सप्तवादनपर्यन्तं उपलब्धा भविष्यति। यात्रिक–संख्यायाः आवश्यकता–दृष्ट्या भविष्ये समये परिवर्तनं कर्तुं शक्यते। प्रारम्भिक–चरणे मेट्रोरेलयानं त्रिभिः कोचैः सह सञ्चाल्यते। वर्तमानकाले देहलीमेट्रो–वत् महिलाभ्यः पृथक् कोचः न निर्धारितः अस्ति।

राजधानी भोपाल–नगरे मेट्रो–सञ्चालनं ऐतिहासिकं क्षणम्

जनसम्पर्क–अधिकारी मुकेश–मोदी अवदत् यत् देशस्य हृदये स्थितस्य मध्यप्रदेशस्य राजधानी भोपालः अद्य अन्यं गौरवं प्राप्नोति। भोपाल–मेट्रो अत्याधुनिक–रेल–सेवा अस्ति। ३०.८ किलोमीटर–दीर्घा एषा परियोजना भोपालस्य शहरी–क्षेत्रं सुगमं, शीघ्रं तथा पर्यावरण–अनुकूलं करिष्यति। अस्यां परियोजनायां द्वौ कॉरिडोर्–रेखौ तथा एकं डिपो अस्ति। भोपाल–मेट्रो–सेवायाः ऑरेञ्ज–रेखा १६.७४ किलोमीटर–दीर्घा तथा नीलरेखा १४.१६ किलोमीटर–दीर्घा अस्ति। एषा परियोजना नगरस्य प्रमुख–व्यावसायिक–आवासीय–क्षेत्राणि संयोजयित्वा यातायात–भारं न्यूनीकरिष्यति तथा नागरिकानां जीवन–स्तरं उन्नतं करिष्यति। भोपाल–मेट्रो केवलं आधुनिक–परिवहनप्रणाली न, अपितु नगरस्य प्रगतैः प्रतीकः अपि अस्ति। स्मार्ट्, सुरक्षितं, पर्यावरण–अनुकूलं च यात्रां प्रवर्धयन्ती एषा परियोजना आवागमनं सुकरं करिष्यति। शुभारम्भेन सह भोपालः आधुनिक–हरित–सुलभ–राजधानी–निर्माणस्य दिशि महत्त्वपूर्णं पदम् अग्रे स्थापयति।

परियोजनायाः प्रथमः चरणः

भोपालमेट्रोपरियोजनायाः प्रथम–चरणे नारङ्ग–रेखायाः ‘प्रायोरिटी–कॉरिडोर्’ शुभारम्भः क्रियते। प्रायः सप्त–किलोमीटर–दीर्घे अस्मिन् खण्डे अष्टौ उन्नतस्थानकानि सन्ति। एतानि स्थानकानि एम्स्, अलकापुरी, डीआरएम–कार्यालयः, रानी–कमलापति–स्थानकम्, एमपी–नगरम्, बोर्ड–कार्यालय–चतुष्पथे, केन्द्रीय–विद्यालयः तथा सुभाष–नगरम् इति सन्ति। एषः कॉरिडोर् नगरस्य अतिव्यस्त–मार्गेषु सुगम–यातायातं प्रदास्यति तथा प्रदूषण–न्यूनिकरणे सहायकः भविष्यति। एषः मेट्रो–कॉरिडोर् नागरिकानां यात्रां सरलां सुलभां च करिष्यति।

परियोजनायाः व्ययः

भोपाल–मेट्रो–परियोजनायाः अनुमानित–व्ययः दश–सहस्र–त्रिंशत्–त्रयः (१०,०३३) कोटि–रूप्यकाणि अस्ति। अस्मिन् प्रायोरिटी–कॉरिडोर्–व्ययः द्वि–सहस्र–द्विशत–पञ्च–विंशति (२,२२५) कोटि–रूप्यकाणि अस्ति। प्रायोरिटी–कॉरिडोर्–रेखायाः दीर्घता सप्त–किलोमीटर–मात्रा अस्ति तथा अस्मिन् कॉरिडोर् मध्ये प्रतिदिनं त्रि–सहस्रयात्रिकानां यात्राया अनुमानः अस्ति।

भोपाल–मेट्रो–सेवायाः विशेषताः

सर्वेषु स्थानकेषु यात्रिकानां सुविधार्थं उच्च–वेग–लिफ्ट् तथा एस्केलेटर्।

दिव्याङ्ग–जनानां कृते सुगमप्रवेशः, व्हील–चेयर्–सुविधा, ब्रेल्–संकेत–पट्टिका।

उच्चस्तरीया सुरक्षा : एआइ–आधारित–सीसीटीवी–निगराणी, प्लेटफॉर्म्–स्क्रीन–डोर्, ग्रेड्–४ सिग्नलिङ्–प्रणाली।

पर्यावरण–अनुकूलता : रीजेनेरेटिव्–ब्रेकिङ्–द्वारा ऊर्जा–उत्पादनं तथा सौर–ऊर्जा–उपयोगः।

आरामदायक–कोचाः : पूर्णतया वातानुकूलिताः, सुविधाजनक–आसनव्यवस्था, चलदूरभाष–आरोहण–बिन्दवः।

स्मार्ट्–प्रौद्योगिकी : श्रव्य–दृश्य–यात्रिक–सूचना–प्रणाली तथा उच्च–प्रौद्योगिक–सञ्चालन–नियन्त्रण–केन्द्रम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता