Enter your Email Address to subscribe to our newsletters

भोपालम्, 20 दिसंबरमासः (हि.स.)। केन्द्रीय–आवास–एवं–शहरी–कार्य–मन्त्रालयस्य तत्वावधानात् उत्तरीय–मध्य–राज्यानां शहरी–विकास–मन्त्रिणां क्षेत्रीयसभा ऽद्य शनिवासरे प्रातः एकादशवादनतः भोपाल–नगरे कुशाभाऊ–ठाकरे–अन्ताराष्ट्रिय–सम्मेलन–केन्द्रे आयोज्यते। अस्यां सभायां केन्द्रीय–आवास–एवं–शहरीकार्यमन्त्री मनोहरलाल–खट्टरः, मध्यप्रदेशस्य मुख्यमन्त्री डॉ० मोहन–यादवः, तथा प्रदेशस्य नगरीयविकास–एवं–आवासमन्त्री कैलाशविजयवर्गीयः उपस्थिताः भविष्यन्ति।
नगरीयविकास–एवं–आवासविभागस्य आयुक्तः सङ्केत–भोंडवे अवदत् यत् अस्याः सभायां मुख्यः उद्देश्यः प्रमुख–शहरी–विकास–योजनानां प्रभावी–क्रियान्वयनार्थं केन्द्रीय–राज्य–सर्वकारयोः मध्ये सहयोग–समन्वययोः सुदृढीकरणम् अस्ति। एषा सभा राज्येभ्यः योजना–वार–प्रगतिः प्रस्तोतुं, क्रियान्वयन–सम्बद्ध–समस्याः सहभागिकर्तुं, श्रेष्ठकार्यप्रणालीनाम् आदानप्रदानं कर्तुं, तथा मन्त्रालयात् नीतिगतं रणनीतिकं च मार्गदर्शनं प्राप्तुं महत्त्वपूर्णं अवसरं प्रदास्यति। तेन अवगतं कृतं यत् अस्यां क्षेत्रीय–सभायाम् छत्तीसगढः, देहली, राजस्थानं तथा उत्तरप्रदेशः इत्येतेषां राज्यानां शहरी–विकास–मन्त्रिणः, राज्यमन्त्रिणः, भारत–सर्वकारस्य तथा राज्य–सर्वकाराणां वरिष्ठ–अधिकारीणश्च सहभागितां करिष्यन्ति। कार्यक्रमस्य एकं प्रमुखं आकर्षणं स्वच्छ–सर्वेक्षण–वर्ष 2025–26 कृते कार्य–दिशा–पुस्तिकायाः विमोचनं भविष्यति। अस्य विषये आयुक्तः सङ्केत–भोंडवे अवदत् यत् एषा कार्य–दिशा–पुस्तिका स्वच्छता, स्थायित्वं तथा नागरिककेन्द्रितशहरीप्रशासनम् अधिकं सुदृढं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति।
सभायां पञ्चसु सत्रेषु प्रमुख–विषयेषु चर्चा भविष्यति
आवास–विभागस्य आयुक्तेन अवगतं कृतं यत् बैठके पञ्चसु सत्रेषु शहरी–विकास–सम्बद्धेषु प्रमुख–विषयेषु विस्तरेण चर्चा भविष्यति। एतेषां सत्राणां माध्यमेन केन्द्रीय–राज्य–सर्वकारयोः मध्ये उत्तमः समन्वयः स्थापितः भविष्यति, योजनानां क्रियान्वयने विद्यमानाः व्यवहारिक–आव्हानानि च समाधानं प्राप्स्यन्ति। अमृत–योजनाया अन्तर्गतं सञ्चालित–प्रस्तावित–कार्याणां प्रगतिः, गुणवत्ता तथा समयबद्ध–पूर्णतासम्बद्धाः विषयाः विचारणीयाः भविष्यन्ति। योजनायाः प्रभावी–क्रियान्वयनार्थम् आवश्यकाः सुधारात्मक–उपायाः अपि चिन्त्यन्ते।
स्वच्छ–भारत–मिशनस्य अन्तर्गतं अवकरनिक्षेपस्थलानां वैज्ञानिक–प्रबन्धनं, ठोस–अपशिष्टनिपटानं तथा स्वच्छतासम्बद्धाः आव्हानानि विषये मन्थनं भविष्यति। स्वच्छता–व्यवस्थाम् अधिकं सुदृढं कर्तुं ठोसकार्ययोजना निर्मीयते।
प्रधानमन्त्री–आवास–योजना (शहरी) अन्तर्गतं निर्माणाधीन–स्वीकृत–आवासानां प्रगतिः समीक्ष्यते तथा लाभार्थिभ्यः समये आवास–उपलब्धौ विद्यमान–समस्याणां समाधानं विचार्यते। अङ्गीकार–अभियानस्य वर्तमान–स्थितिः, उपलब्धयः, आह्वानानि च समीक्ष्यन्ते, तथा अभियानं अधिकं प्रभावी–जन–सहभागिता–आधारितं कर्तुं आवश्यकाः दिशा–निर्देशाः निश्चिताः भविष्यन्ति। शहरी परिवहनव्यवस्थायाः अन्तर्गतं नगरलोकसेवाः, भूमिगतरेलप्रणाली, पादचारीमार्गाश्च सम्बन्धित-आवागमन–व्यवस्थायाः समीक्षाऽपि भविष्यति। यातायातं सुगमं, सुरक्षितं, पर्यावरण–अनुकूलं च कर्तुं भावीरणनीतिषु चर्चा भविष्यति।
एतस्याः क्षेत्रीय–सभायाः माध्यमेन राज्यवारयोजनावार–क्रियान्वयन–चुनौतयः परिचीयन्ते, कार्यक्रमाणां सशक्तीकरणार्थं व्यवहारिक-अनुशंसाः लभ्यन्ते, केन्द्रीयराज्यसर्वकारयोः मध्ये उत्तमः समन्वयः सिध्यति, तथा शहरी–प्रशासनं सेवा–प्रदायगी च सुधारयितुं ठोसाः रणनीतिक–सूचनाः प्राप्ताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता