Enter your Email Address to subscribe to our newsletters

काठमांडूनगरम्, 20 दिसंबरमासः (हि.स.)। नेपालदेशे आगामि ५ मार्च २०२६ तमे दिने आयोज्यमानस्य प्रतिनिधि–सभा–निर्वाचनस्य कृते देशव्यापिनीषु प्रायः एकादश–सहस्राणि मतदान–केन्द्राणि स्थापितानि सन्ति। निर्वाचन–आयोगस्य कथनानुसारं मतदातॄणां मतदान–प्रक्रियां अधिकं सरलां सुविधाजनकां च कर्तुं आयोगेन १६८ नूतनानि मतदान–केन्द्राणि संयोजितानि। पूर्वं देशे १०,८९२ मतदान–केन्द्राणि आसन्। अनुपयोग्यानि अथवा अनुपयुक्तानि मन्यमानानि ९३ मतदान–केन्द्राणि निरस्तानि। एवम् आगामि निर्वाचनस्य समये समग्रतया १०,९६७ मतदान–केन्द्राणि भविष्यन्ति।
निर्वाचन–आयोगेन उक्तं यत् मतदातॄणां सुविधायाḥ सुनिश्चित्यर्थं मतदान–केन्द्राणां पुनर्गठनं कृतम्। ये मतदान–केन्द्राणि दुर्गमस्थानस्थितानि आसन् अथवा मतदातॄणां कृते अनुपयुक्तानि मन्यन्ते स्म, तानि अपसारितानि; तेषां स्थाने अधिकोपयुक्तेषु स्थानेषु नूतनानि मतदान–केन्द्राणि स्थापितानि सन्ति।
मतदान–केन्द्राणां समीक्षाकाले तेषां नाम्नि पत्त्र–विवरणे च दृश्यन्ते दोषाः अपि संशोधिताः। केषुचन प्रकरणेषु मतदातॄणां नामानि अंशतः अथवा पूर्णतः अधिकोपयुक्तेषु मतदान–केन्द्रेषु स्थानान्तरितानि। आयोगेन एतत् समीक्षाप्रक्रियायाः विषये पूर्वमेव सार्वजनिक–सूचना अपि प्रसारिताभवत्। आयोगस्य कथनानुसारं, यदि कस्यचित् मतदातुः नाम समीक्षाकाले अन्यस्मिन् मतदान–केन्द्रे स्थानान्तरितं कृतं स्यात् अथवा निरस्तं कृतं स्यात्, तर्हि सम्बन्धितव्यक्तिभ्यः आपत्तिं पञ्जीकरणाय अवसरः प्रदत्तः। तदतिरिक्तम्, एकस्मिन् एव वार्डे एकस्मात् मतदान–केन्द्रात् अन्यस्मिन् मतदान–केन्द्रे नाम–स्थानान्तरणाय आवेदन–व्यवस्था अपि कृतास्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता