सर्वकारस्य शतदिवसानि पूर्णानि अभवन् , अवसरे अस्मिन् प्रधानमन्त्रीः सुशीला कार्की अवदत्— निर्वाचनमेव एकमेव लक्ष्यम्
काठमांडूनगरम्, 20 दिसंबरमासः (हि.स.)। नेपालदेशस्य प्रधानमन्त्री सुशीला कार्की स्वस्य सर्वकारस्य शतदिवसानि पूर्णानि अभवन् इति अवसरॆ अवदत् यत् तस्याः सर्वकारेण सुशासनं निर्वाचनं च एव एकमेव प्राधान्यं कृतम् अस्ति, तथा आगामि निर्वाचनमेव स्थिरतायाः लोकत
राष्ट्र के नाम संबोधन करते हुए प्रधानमंत्री सुशीला कार्की


काठमांडूनगरम्, 20 दिसंबरमासः (हि.स.)। नेपालदेशस्य प्रधानमन्त्री सुशीला कार्की स्वस्य सर्वकारस्य शतदिवसानि पूर्णानि अभवन् इति अवसरॆ अवदत् यत् तस्याः सर्वकारेण सुशासनं निर्वाचनं च एव एकमेव प्राधान्यं कृतम् अस्ति, तथा आगामि निर्वाचनमेव स्थिरतायाः लोकतान्त्रिक–पुनर्जागरणस्य च एकमात्रः व्यवहारिकः मार्गः अस्ति।

जेन–ज़ी–आन्दोलनात् अनन्तरं गठितस्य सर्वकारस्य शतदिवसानि पूर्णानि अभवन् इति अवसरॆ राष्ट्रं प्रति संबोधने प्रधानमन्त्री कार्की अवदत् यत् सर्वकारः ५ मार्च २०२६ तमे दिने प्रतिनिधि–सभा–निर्वाचनं स्वतन्त्रे, निष्पक्षे तथा भयमुक्ते वातावरणे सम्पन्नं कर्तुं दृढसंकल्पितः अस्ति।

सा अवदत्— “जेन–ज़ी–आन्दोलनस्य भावनया प्रेरिता एषा सर्वकारा सुशासनं निर्वाचनं च एव स्वस्य एकमेव लक्ष्यं कृतवती अस्ति। निर्वाचनॆ कः जयति कः वा पराजयं प्राप्नोति, तत् गौणम् अस्ति। सर्वाधिकं महत्वपूर्णं तु एतत् यत् अस्माकं लोकतन्त्रं राष्ट्रीय अखण्डता च सुदृढा भवेत्।” राष्ट्रिय–एकतायाः आह्वानं कुर्वती प्रधानमन्त्री कार्की नागरिकान् आगामि निर्वाचनं “राष्ट्रीय–अनुष्ठानम्” इव द्रष्टुं प्रार्थयामास, यत् परिवर्तनस्य द्वारं उद्घाटयिष्यति। सा अवदत्— “राष्ट्रिय–एकतायाः सूत्रे बद्धाः सन्तः वयं देशं नूतनां दिशं प्रति अग्रे नयामः। एतत् निर्वाचनं नेपालदेशस्य राजनीतौ नूतनस्य, शुद्धस्य, स्वर्णिमस्य च अध्यायस्य आरम्भं करिष्यति।”

निर्वाचनस्य विलम्बः अथवा निरस्तीकरणं इति याः अफवाहाः सन्ति, ताः निराधाराः इति निर्दिश्य सा अवदत् यत् निर्धारिते समये निर्वाचनं कर्तुं सर्वकारस्य संकल्पः “शिलावत् दृढः” अस्ति। जेन–ज़ी–आन्दोलनानन्तरं जातां हिंसां स्मारयन्ती प्रधानमन्त्री अवदत् यत् ८ तथा ९ सेप्टेम्बर्–दिनयोः दुःखद–घटनानन्तरं देशः पुनः शान्तेः मार्गे आगतः अस्ति। सा अवदत् यत् प्राणहानिं प्राप्ताः शहीदाः घोषिताः सन्ति, घायितानाम् उपचारः आजीविका–सहायता–प्रक्रिया च प्रवर्तते, तथा क्षतिग्रस्त–संरचनानां पुनर्निर्माण–कार्यं भौतिक–अवसंरचना–पुनर्निर्माणकोषस्य माध्यमेन आरब्धम् अस्ति।

निर्वाचनसिद्धताविषये सा अवदत् यत् एकीकृता निर्वाचन–सुरक्षा–योजना अनुमोदिता अस्ति, नेपालसेनायाः नियुक्तिः च सुनिश्चिता अस्ति। अशान्तिकाले लुण्ठीतेषु १,३४२ आयुधेषु अधिकांशानि पुनः प्राप्तानि सन्ति, अपि च आरक्षकेण अतिरिक्तानि ३२ अवैध–आयुधानि जप्तानि सन्ति। क्षतिग्रस्तानि ४६५ आरक्षक–कार्यालयानि पुनः सञ्चालनाय प्रवर्तितानि सन्ति।

सा अवदत् यत् निर्वाचन–आयोगाय ६७३ कोटिरूप्यकाणां व्यवस्था कृता अस्ति, तथा मतदाता–पञ्जीकरण–नियमेषु संशोधनानन्तरं निर्वाचन–तिथेः घोषणानन्तरमपि ८ लक्ष ३७ सहस्राणि नूतन–युव–मतदातारः संयोजिताः सन्ति। अधुना १ कोटि ८१ लक्षाधिकाः मतदातारः मतदानाय पात्राः सन्ति, ११४ राजनैतिक–दलानि च निर्वाचनप्रक्रियायां सहभागं कुर्वन्ति। विशेषतया जेन–ज़ी–सहितान् युवा–मतदातारः प्रति संबोधयन्ती प्रधानमन्त्री अवदत् यत् निर्वाचनं जय–पराजयस्य विषयः न, अपि तु लोकतन्त्रस्य सुशासनस्य च सुदृढीकरणस्य साधनम् अस्ति। सा अवदत्— “मार्ग–आन्दोलनानि प्रश्नान् उत्थापयन्ति, किन्तु मतपत्रं समाधानं ददाति,” इति, तथा राज्यं प्रत्येकं मतस्य संरक्षणं करिष्यति इति आश्वासनं दत्तवती।

गत–शतदिवसेषु कृतानां शासकीय–सुधाराणाम् उल्लेखं कुर्वती सा अवदत् यत् अधुना विधिप्रवर्तनसंस्थाः भ्रष्टाचारनिवारणसंस्थाः च पदं प्रभावं वा न पश्यन्तः पूर्णव्यावसायिक–स्वतन्त्रतया कार्यं कुर्वन्ति। सर्वकारः भ्रष्टाचारयुक्त–कार्याणि, राज्यसंसाधनदुरुपयोगं, स्थगितविकासपरियोजनानां च विरुद्धं कठोरां कार्यवाहीं करोति।

धैर्यस्य आवश्यक्तां प्रतिपादयन्ती सा अवदत् यत् सार्थकं परिवर्तनं एकेन रात्र्या न सम्भवति, तथा जेन–ज़ी–आन्दोलनस्य उपलब्धीनां संस्थानीकरणाय निरन्तर–प्रयत्नः कालः च आवश्यकः अस्ति। अन्ते सा अवदत्— “अराजकता कस्यापि आनन्दं न जनयति; केवलं शान्तिः स्थिरता च एव समृद्धेः द्वारम् उद्घाटयतः,” इति, तथा नागरिकान् ५ मार्च २०२६ तमे दिने सम्पन्नं निर्वाचनं राष्ट्रियनवजागरणस्य ऐतिहासिकं कीर्ति–स्तम्भं कर्तुम् आह्वानं कृतवती।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता