Enter your Email Address to subscribe to our newsletters

नवदेहली, 20 दिसंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदीः शनिवासरे पश्चिमबङ्गालस्य असमस्य च प्रवासे स्थितः भविष्यति। पश्चिमबङ्गाले सः ३२०० कोटिरूप्यकाणां राष्ट्रियराजमार्ग–परियोजनानाम् उद्घाटनं तथा शिलान्यासं करिष्यति, असमे च १६०० कोटिरूप्यकात् अधिकमूल्यकाः विकास–योजनाः आरभ्यन्ते।
प्रधानमन्त्रीः अद्य प्रातः प्रायः ११:१५ वादने पश्चिमबङ्गालस्य नादिया–जनपदे राणाघाटे राष्ट्रियराजमार्ग–परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। अत्र सः प्रायः ३२०० कोटिरूप्यकव्यययुक्ताः द्वे राष्ट्रीयराजमार्ग–परियोजनाः उद्घाटयिष्यति तथा तयोः शिलान्यासं करिष्यति। परिवहनमन्त्री नितिनगडकरी–महाशयस्य उपस्थितौ सः पश्चिमबङ्गालस्य नादिया–जनपदे एनएच–३४ अन्तर्गतं बराजागुली–कृष्णनगर–खण्डस्य ६६.७ किलोमीटर–दीर्घस्य चतुर्लेन–कार्यस्य उद्घाटनं करिष्यति। तेन सह उत्तर–२४–परगना–जनपदे एनएच–३४ अन्तर्गतं बरासात–बराजागुली–खण्डस्य १७.६ किलोमीटरदीर्घस्य चतुर्लेन–कार्यस्य आधारशिलां स्थापयिष्यति।
असम–यात्रायां प्रधानमन्त्री मोदी राज्याय १६०० कोटिरूप्यकात् अधिकमूल्यकां सौगात् दास्यति। प्रधानमन्त्रीः पश्चिमबङ्गालात् अनन्तरं शनिवासरे अपराह्णे २.३० वादने गुवाहाटी–विमानपत्तनं प्राप्स्यति। ततः सः नूतन–टर्मिनल इत्यस्मात् बहिः असमस्य प्रथममुख्यमन्त्रिणः गोपीनाथ–बोरदोलोई–महाशयस्य ८० पादोन्नतां प्रतिमां अनावरणं करिष्यति। नूतनः टर्मिनलः अपि तस्यैव नाम्ना नामाङ्कितः अस्ति। प्रधानमन्त्रीः प्रायः ४००० कोटिरूप्यकव्ययेन निर्मितस्य नूतन–टर्मिनलस्य उद्घाटनं करिष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता