Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 20 दिसंबरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी द्विदिवसीयकार्यक्रमस्य अन्तर्गतं शनिवासरे असमराज्यं प्राप्तवान्। लोकप्रियगोपीनाथबर्दलै अन्ताराष्ट्रियविमानपत्तने मुख्यमन्त्रिणा डॉ. हिमन्तबिस्वसरमामहोदयेन तस्य हार्दिकं स्वागतं कृतम्।
अस्मिन् अवसरे प्रधानमन्त्री मोदीः प्रायः अशीतिफुट् उन्नतां लोकप्रियगोपीनाथबर्दलै महोदयस्य प्रतिमां अपि उद्घाट्य महानेतारं श्रद्धाञ्जलिं अर्पितवान्। तदनन्तरं विमानपत्तनस्य नूतनस्य अत्याधुनिकटर्मिनलभवनस्य उद्घाटनं कृत्वा बरझार-प्रदेशे आयोजितायां जनसभायां भाषणं कृतवान्।
प्रधानमन्त्री अवदत् यत् असमराज्यं अधुना देशस्य विकासस्य प्रवेशद्वाररूपेण विकसितं जातम् अस्ति। राज्ये प्रवर्तमानानि विकासकार्याणि “विकासोत्सवः” इति निर्दिश्य सः जनान् आहूतवान् यत् ते स्वमोबाइलदूरभाषायाः फ्लैशलाइट् प्रज्वालयित्वा अस्मिन् उत्सवे सहभागिनः भवन्तु।
तदनन्तरं प्रधानमन्त्री विमानपत्तनात् वशिष्ठस्थितं भारतीयजनतापक्षस्य कार्यालयं यावत् आयोजिते रोड-शो मध्ये सहभागं कृतवान्। मार्गस्य उभयतो दिशयोः बहुसंख्यकैः जनैः प्रधानमन्त्री स्वागतीकृतः, येन सम्पूर्णप्रदेशे उत्साहपूर्णं वातावरणं दृष्टिगतं जातम्।
---------------------
हिन्दुस्थान समाचार