Enter your Email Address to subscribe to our newsletters

- ईशानकिशनस्य दीर्घकालानन्तरं पुनरागमनम्
नवदेहली, 20 दिसंबरमासः (हि.स.)। भारत-श्रीलङ्का-देशयोः संयुक्त-आयोजनेन फेब्रुवरी–मार्च २०२६ मध्ये आयोजितस्य आईसीसी-पुरुष-टी–२०-विश्वकपस्य कृते भारतीय-दलस्य घोषणा कृता अस्ति। शनिवासरे, २० दिसम्बर-तिथौ, बीसीसीआई-संस्थया सूर्यकुमार-यादव-नेतृत्वे पञ्चदश-सदस्यीयं भारतीय-दलम् उद्घोषितम्। चयन-प्रक्रियायां सर्वाधिकं चर्चितं निर्णयं शुभमन-गिल-महोदयस्य दलात् बहिष्करणं आसीत्, यदा तु उत्तम-फॉर्मे वर्तमानः ईशान्-किशनः दलस्य स्थाने समाविष्टः अभवत्।
दक्षिण-आफ्रिका-विरुद्धं सम्पन्नायां अद्यतन-टी–२०-श्रृङ्खलायां शुभमन-गिल-महोदयस्य प्रदर्शनं चयनकर्तॄणां मनः न आकृष्टवान्। आद्ययोः द्वयोः क्रीडासु सः केवलं चत्वारः शून्यं च धावनाङ्कान् कृतवान्, तथा च धर्मशालायां क्रीडिते तृतीय-टी–२०-मुकाबले अष्टाविंशति-धावनाङ्कानां क्रीडां कृत्वा अपि स्वस्य लये न दृष्टः। अस्यैव कारणेन सः टी–२०-विश्वकप् २०२६-दलस्य समावेशं न प्राप्तवान्।
अन्यतः, ईशान्-किशनः अन्ताराज्यीय-क्रीडायां उत्कृष्टं प्रदर्शनं कृत्वा चयनकर्तॄणां विश्वासं अर्जितवान्। सैयद्-मुश्ताक्-अली-ट्रॉफी-प्रतियोगितायां सः अद्भुतं बल्लेबाजी-कौशलं प्रदर्शयन् सम्पूर्ण-प्रतियोगितायां अधिकतमं पञ्चशत-सप्तदश (५१७) धावनाङ्कान् कृतवान्। तस्य एषा निरन्तरता, विशाल-धावनाङ्क-निर्माण-क्षमता च, तस्मिन्नेव काले प्रकटिता, यस्मिन् टी–२०-विश्वकपस्य कृते दल-चयनम् अत्यन्तं महत्वपूर्णं आसीत्। बीसीसीआई-संस्थया एतदेव सह आगामी-मासे न्यूजीलैण्ड-विरुद्धं भविष्यन्त्या सीमित-ओवर-श्रृङ्खलायाः कृते अपि भारतीय-दलः चयनितः। अस्मिन् अवसरे मुख्य-चयनकर्ता अजीत्-अगर्करः तथा कप्तानः सूर्यकुमार-यादवः मुम्बई-स्थिते बीसीसीआई-मुख्यालये आयोजितायां पत्रकार-वार्तायां विवरणं प्रदत्तवन्तौ। एष एव दलः न्यूजीलैण्ड-विरुद्धं टी–२०-श्रृङ्खलायामपि भागं ग्रहीष्यति।
टी–२० विश्वकप् २०२६ कृते भारतीय-दलः—
सूर्यकुमार-यादवः (कप्तानः), अभिषेक-शर्मा, तिलक-वर्मा, हार्दिक-पाण्ड्या, शिवम्-दुबे, अक्षर-पटेलः (उपकप्तानः), ईशान्-किशनः (विकेट-रक्षकः), संजू-सैमसनः (विकेट-रक्षकः), जसप्रीत-बुमराहः, वरुण-चक्रवर्ती, अर्शदीप-सिंहः, कुलदीप-यादवः, हर्षित-राणा, रिंकू-सिंहः, वॉशिङ्गटन-सुन्दरः।
-------------
हिन्दुस्थान समाचार / अंशु गुप्ता