श्रीरंगम रंगनाथ मंदिरे वैकुंठ एकादशी उत्सवस्य शुभारंभः, 21 दिनानि यावत् चलिष्यति भव्यम् आयोजनम्
श्रीरंगमः, 20 दिसंबरमासः (हि.स.)।तमिलनाडुराज्यस्य श्रीरङ्गमस्थिते विश्वविख्याते श्रीरङ्गनाथस्वामिमन्दिरे मार्गशीर्षमासे आयोजितः तिरुपावैयाध्ययनमहोत्सवः, यः वैकुण्ठएकादशीमहोत्सव इति अपि प्रसिद्धः, शनिवासरे पूर्णश्रद्धया भक्तिभावेन च आरब्धः। महोत्सवस
श्री रंगम रंगनाथ मंदिर में आज से वैकुंठ एकादशी उत्सव शुरू हो रहा है


श्री रंगम रंगनाथ मंदिर में आज से वैकुंठ एकादशी उत्सव शुरू हो रहा है


श्रीरंगमः, 20 दिसंबरमासः (हि.स.)।तमिलनाडुराज्यस्य श्रीरङ्गमस्थिते विश्वविख्याते श्रीरङ्गनाथस्वामिमन्दिरे मार्गशीर्षमासे आयोजितः तिरुपावैयाध्ययनमहोत्सवः, यः वैकुण्ठएकादशीमहोत्सव इति अपि प्रसिद्धः, शनिवासरे पूर्णश्रद्धया भक्तिभावेन च आरब्धः। महोत्सवस्य अन्तर्गतं प्रातःकालात् एव अय्यरगलमण्डपस्य समीपे विशेषपूजाः, होम-हवनकार्यक्रमाः, भक्तिसम्बद्धाश्च क्रियाः सम्पन्नाः।

वैकुण्ठएकादश्याः पावने अवसरे तिरुचिरापल्लीस्थं श्रीरङ्गम-श्रीरङ्गनाथमन्दिरं दीपैः अलङ्कृतं भव्यरूपेण शोभते। श्रद्धालवः मन्यन्ते यत् श्रीरङ्गममन्दिरं स्वयमेव वैकुण्ठसदृशं भवति। यद्यपि अत्र वर्षभरं विविधाः उत्सवाः भवन्ति, तथापि वैकुण्ठएकादशीपर्व विशेषतया विश्वप्रसिद्धम् अस्ति।

अस्मिन् पावने अवसरे नाम्पेरुमालः पाण्डियनकोण्डै, रट्टिनपाकासनम्, वायार-अभय-हस्तम्, पावलमाला, कसमलाई, मुक्ताचरम्, अक्का-पदकं च सहितं बहूनि पवित्राभरणानि धारयित्वा मुख्यदेवालयात् भव्यायां उत्सवयात्रायां निर्गतः। एषा यात्रा प्रातः अष्टवादनत्रिंशत् (८:३०) काले अर्जुनमण्डपं प्राप्तवती, यत्र भक्तेभ्यः दर्शनसेवा च प्रदत्ता। अत्र अय्यररामानुजस्य पुरतः चतुर्सहस्रं दिव्यप्रबन्धगीतानां सस्वरगायनं कृतम्, ततः पश्चात् मन्दिरालङ्कारदर्शनार्थं पर्दादर्शनं प्रदत्तम्।

भक्तानां सम्मानार्थं विशेषकार्यक्रमः सायं चतुर्वादनात् षड्वादनपर्यन्तं (४–६) आयोजयिष्यते। नाम्पेरुमालः सायं सप्तवादनत्रिंशत् (७:३०) काले अर्जुनमण्डपात् प्रस्थानं कृत्वा रात्रौ नववादनपञ्चचत्वारिंशत् (९:४५) काले स्वमूलस्थानं पुनः अध्यास्यति।

पगलपट्टु-महोत्सवस्य प्रथमे दिने मूलवरः श्रीरङ्गनाथरः मुथङ्गीसेवायां भक्तेभ्यः दर्शनं दास्यति। एषा मुथङ्गीसेवा निरन्तरं विंशतिदिनानि यावत् भविष्यति। मूलस्थानसेवा प्रातः सप्तवादनपञ्चचत्वारिंशत् (७:४५) काले आरभ्य सायं पञ्चवादनत्रिंशत् (५:३०) पर्यन्तं, पुनः सायं षड्वादनपञ्चचत्वारिंशत् (६:४५) आरभ्य रात्रौ अष्टवादनत्रिंशत् (८:३०) पर्यन्तं भविष्यति।

वैकुण्ठएकादशीमहोत्सवकाले मन्दिरपरिसरे पेरीमेलम्, नागसुरम्, टक्कै, शङ्खः, मृदङ्गः, वेल्लियतालम्, सैम्पुयतालम्, वीरवण्डी इत्यादयः अष्टादशप्रकारकवाद्ययन्त्राणां निनादः श्रूयते।

अयं महोत्सवः एकविंशतिदिनानि यावत् पगलपट्टु-रप्पपट्टु-महोत्सवरूपेण आचरिष्यते। महोत्सवस्य प्रमुखाकर्षणं सार्कवासलम् अर्थात् परमपथवासलस्य उद्घाटनं डिसम्बरमासस्य त्रिंशत्तमे दिने प्रातः प्रायः चतुर्वादनत्रिंशत् (४:३०) काले भविष्यति, यत् स्वर्गद्वारोद्घाटनरूपेण मन्यते।

ततः अनन्तरं जनवरीमासस्य पञ्चमे दिने कैतालसेवा, षष्ठे दिने तिरुमङ्गलमञ्जन-वेदुपरी नाम भव्यः कार्यक्रमः भविष्यति, यस्मिन् नाम्पेरुमालः सुवर्णहस्तिनि विराजमानः भविष्यति। अष्टमे दिने तीर्थवाडी-दर्शनं, नवमे दिने नाम्मालवारमोक्षोत्सवेन सह वैकुण्ठएकादशीमहोत्सवस्य समापनं भविष्यति।वैकुण्ठएकादशीमहोत्सवस्य अवसरं दृष्ट्वा मन्दिरप्रशासनद्वारा व्यापकाः व्यवस्थाः कृताः सन्ति। तमिलनाडुतः एव न केवलं, अपि तु सम्पूर्णदेशात् आगच्छन्ति ये श्रद्धालवः, तेषां सुरक्षार्थं सहस्रशः पुलिसकर्मिणां नियुक्तिः कृता अस्ति। श्रीरङ्गमं प्रति अतिरिक्तबस्सेवाः अपि सञ्चालिताः सन्ति।महोत्सवकारणात् श्रीरङ्गमे सर्वत्र भक्तिमयं वातावरणं वर्तते। अस्मिन् काले राजगोपुरसहितं एकविंशतिगोपुराणि सप्तप्राकाराश्च वर्णविचित्रैः विद्युत्प्रकाशैः सुशोभिताः। मन्दिरपरिसरे श्रीरङ्गनाथः, शङ्खः, चक्रं, नामदेवताच इत्याकारैः विद्युत्सज्जा श्रद्धालून् मन्त्रमुग्धान् करोति।

------------

हिन्दुस्थान समाचार / Dheeraj Maithani