विदेशप्रषणनाम्ना वंचनाकर्तृभिः शक्तकार्यवाही : मुख्यमंत्री
जनता दर्शने आगतः परिवादः। मुख्यमंत्री योगी आदित्यनाथ अधिकारिभ्योऽददात् निर्देशम् गोरखपुरम्, 20 दिसंबरमासः(हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः पुलिसाधिकारिणः प्रति स्पष्टतया कठोरां हिदायत् दत्तवान् यत् विदेशप्रेषणस्य नाम्ना ये जनान् वञ्चयन्ति, त
गाेरखपुर में जनता दर्शन के दौरान समस्याएं सुनते सीएम योगी


जनता दर्शने आगतः परिवादः। मुख्यमंत्री योगी आदित्यनाथ अधिकारिभ्योऽददात् निर्देशम्

गोरखपुरम्, 20 दिसंबरमासः(हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः पुलिसाधिकारिणः प्रति स्पष्टतया कठोरां हिदायत् दत्तवान् यत् विदेशप्रेषणस्य नाम्ना ये जनान् वञ्चयन्ति, तेषु एजेन्टेषु विरुद्धं कठोरतमां कार्यवाहीं क्रियताम्। तादृशैः एजेन्टैः पीडितेभ्यः सम्पूर्णं धनं अपि प्रत्यर्पयितुं निर्देशः दत्तः। विदेशप्रेषणस्य बहानेन धोखाधडीं कुर्वतां व्यक्तीनां चिन्हीकरणं कृत्वा तेषां विरुद्धं कडोरकार्यवाहीं कर्तुं सः आदेशं दत्तवान्।

मुख्यमन्त्री योगी आदित्यनाथः एतान् निर्देशान् शनिवासरप्राते तीव्रशीतकाले आयोजिते जनतादर्शने जनानां समस्याः शृण्वन् अददात्। गोरखनाथमन्दिरस्थिते महन्तदिग्विजयनाथस्मृतिभवनस्य सभागारे आयोजिते जनतादर्शने मुख्यमन्त्रीणः योगी आदित्यनाथः प्रायः द्विशतपञ्चाशत् जनैः सह साक्षात्कारं कृतवान्। योगी सर्वान् आश्वासयन् अवदत् यत् कस्यापि चिन्ता कर्तव्या नास्ति, प्रत्येकस्य समस्यायाः प्रभावी समाधानं निश्चयेन भविष्यति।

जनतादर्शने आगता एका महिला स्वपरिवारस्य सदस्यं विदेशं प्रेषयितुं एजेन्टेन कृतायाः ठगीप्रकरणं मुख्यमन्त्रीं निवेदितवती। तस्मिन् प्रसङ्गे मुख्यमन्त्रीणा तत्र उपस्थितान् पुलिसाधिकारिणः प्रति तत्क्षणमेव आदेशः दत्तः यत् सम्बन्धितएजेन्टस्य विरुद्धं कठोरां कार्यवाहीं कृत्वा पीडितायाः धनं प्रत्यर्पयन्तु। सः तां महिलामपि उपदिशन् अवदत् यत् विदेशगमनस्य नाम्ना एजेन्टानां जाले न पतितव्यम्। अवैधरीत्या गमने जनाः परदेशे कारागारे अपि वसितुं बाध्यन्ते।

जनतादर्शने उपस्थितेषु पुलिससम्बद्धेषु प्रकरणेषु अपि मुख्यमन्त्री योगी आदित्यनाथः कठोरकार्यवाहीं कर्तुं निर्देशं दत्तवान्। सः अवदत् यत् पीडितानां सहाय्ये किञ्चिदपि विलम्बं प्रमादं वा न भवेत्। जनसमस्यानां निवारणे यदि कस्यचित् प्रकारेण लापरवाही भविष्यति, तर्हि सम्बन्धितस्य विरुद्धं अपि कार्यवाही निश्चिता भविष्यति। मुख्यमन्त्रीणा प्रशासनस्य पुलिसस्य च अधिकारिणः प्रति निर्देशः दत्तः यत् जनसमस्यानां समयबद्धं निष्पक्षं गुणवत्तायुक्तं च निस्तारणं कुर्वन्तु। प्रत्येकस्य पीडितस्य शीघ्रं सहाय्यं क्रियताम्। भूमिअतिक्रमणसम्बद्धेषु शिकायतिषु विधिसम्मतं कठोरं पगं ग्रहीतुं सः आदेशं दत्तवान्।

जनतादर्शने पूर्ववत् अस्मिन् अपि समये केचन जनाः चिकित्सायाः कृते आर्थिकसहाय्यायाः याचनया आगताः। तस्मिन् विषये मुख्यमन्त्री योगी आदित्यनाथः अधिकारिणः प्रति अवदत् यत् शीघ्रमेव चिकित्सालयस्य अनुमानपत्रप्रक्रियां पूर्णां कृत्वा शासनाय प्रेषयन्तु। चिकित्सायै मुख्यमन्त्रीविवेकाधीनकोषात् पर्याप्ता सहायता प्रदास्यते। जनतादर्शने परिवारैः सह आगतान् बालकान् स्नेहेन आलिङ्ग्य मुख्यमन्त्री योगी आदित्यनाथः तान् विद्यालयं गन्तुं प्रेरितवान् तथा च तेषां कृते चॉकलेट् दत्तवान्।-------------

हिन्दुस्थान समाचार