Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 20 दिसंबरमासः (हि.स.)।
उत्तरप्रदेशस्य मीरजापुर–विन्ध्याचलक्षेत्रस्य सुनियोजितविकासस्य दिशायां मीरजापुरविन्ध्याचलविकासप्राधिकरणेन महत्त्वपूर्णा पहल आरब्धा अस्ति। प्राधिकरणस्य प्रथमावासीययोजनारूपेण मीरजापुरविन्ध्याचलयोः मध्ये पञ्चाशदधिकैकडपरिमिते क्षेत्रे “गङ्गाविन्ध्यविहार आवासीययोजना” विकसितुं निश्चितम् अस्ति। अस्याः योजनायाः माध्यमेन साधारणजनानां कृते सुलभमूल्ये आवासीयसुविधा उपलब्धा भविष्यति, तथा च क्षेत्रस्य शहरीविकासाय नवगतिर्दास्यते।
तदनन्तरं प्राधिकरणेन कन्तितक्षेत्रे (यत् मीरजापुरे गङ्गानद्याः तीरे स्थितं ऐतिहासिकं स्थानम् अस्ति) एकस्य व्यावसायिकसहकार्यालयसमुच्चयस्य निर्माणं कारयिष्यते, यत्र मीरजापुरविन्ध्याचलविकासप्राधिकरणस्य कार्यालयं सञ्चालितं भविष्यति। अनेन प्रशासनिककार्याणां सुगमता वर्धिष्यते, सह एव व्यावसायिकगतिविधीनां प्रोत्साहनमपि भविष्यति।
प्राधिकरणस्य क्षेत्रविस्तारविषये अपि महत्त्वपूर्णः निर्णयः कृतः अस्ति। संशोधितप्रस्तावानुसारं पूर्वनिर्धारितक्षेत्रस्य अतिरिक्तं ट्रान्सगङ्गाक्षेत्रे चील्हपर्यन्तं विस्तारः प्राधिकरणसीमायां समावेशितः भविष्यति। अनेन विकासयोजनानां लाभः विस्तीर्णक्षेत्रे जनानां पर्यन्तं प्राप्तुं शक्यते।
मण्डलायुक्तः राजेशप्रकाशः अवदत् यत् विकासप्राधिकरणस्य उद्देश्यं केवलं आधारभूतसंरचनायाः विकासः न, अपि तु आयस्य स्थायिस्रोतांसि अपि सृजितुं यतते, येन सुनियोजितशहरीविकासेन सह नागरिकेभ्यः उत्तमाः सुविधाः उपलब्धाः कर्तुं शक्यन्ते। तेन निर्देशः दत्तः यत् सर्वाणि विकासकार्याणि जनहितं दृष्ट्वा गुणवत्तासहितं क्रियताम्।
---------------
हिन्दुस्थान समाचार