Enter your Email Address to subscribe to our newsletters

प्रयागराजः, 20 दिसंबरमासः (हि.स.)। शतपदानां पूर्त्यर्थं द्वाविंशतितमे दिसम्बरमासस्य दिने रोजगारमेला आयोज्यते। अस्यां मेलायां निजीक्षेत्रस्य वर्धमानयार्न्–एण्ड्–थ्रीड्स्–लिमिटेड्, लुधियाना इति नाम्नी कम्पनी योग्य–युवक–युवतीनां चयनं करिष्यति। एतत् विवरणं जनपदस्य सहायक–सेवायोजन–अधिकारी गुरुवासरे अवदत्।
सः अवदत् यत् एषः रोजगार–मेला क्षेत्रीयकार्यालयपरिसरे द्वाविंशतितमे दिसम्बरमासस्य दिने प्रातः दशवादनात् आरभ्य भविष्यति। अस्यां मेलायां लुधियाना–नगरस्य निजी–क्षेत्रस्य प्रसिद्धा कम्पनी वर्धमान–यार्न्–एण्ड्–थ्रीड्स्–लिमिटेड् शतपदेषु चयनं करिष्यति।
रोजगार–मेलायाम् उच्च–माध्यमिक–परीक्षा–उत्तीर्णाः, माध्यमिक–परीक्षा–उत्तीर्णाः, स्नातकाः, आई.टी.आई.–उत्तीर्णाः युवकाः युवत्यश्च आवेदनं कर्तुं शक्नुवन्ति। आवेदनार्थं १८ वर्षात् ३० वर्षपर्यन्तं आयुसीमा निर्धारिता अस्ति। अभ्यर्थिनः रोजगार–सङ्गम–पटले (rojgaarsangam.gov.up.in) स्व–पञ्जीकरणं कृत्वा, स्वेषां समस्त–शैक्षणिक–प्रमाणपत्राणां, अङ्क–पत्राणां तथा जाति–प्रमाणपत्रस्य छायाप्रतिभिः सह मेलायाम् सहभागिता कर्तुं शक्नुवन्ति।
रिक्त–पदानां विषये विस्तृतं विवरणं रोजगार–सङ्गम–पोर्टले एव उपलब्धं भविष्यति। अस्मिन् रोजगार–मेलायाम् सहभागितार्थं यात्रा–भत्तं न देयम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता