Enter your Email Address to subscribe to our newsletters

लखनऊ, 20 दिसंबरमासः (हि.स.)।
मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य नेतृत्वे प्रदेशे प्रवर्तमानानां महिलासशक्तीकरणयोजनानां प्रभावः अधुना ग्रामे–ग्रामे स्पष्टतया दृश्यते। झांसीजनपदस्य डिगारा-ग्रामस्य रञ्जना-गौतमस्य जीवनकथा अस्य परिवर्तनस्य साक्ष्यं वहति। पत्या घटितायां गम्भीरायां दुर्घटनायां अनन्तरं यस्य परिवारस्य आजीविकायाः संकटः उत्पन्नः आसीत्, अद्य स एव परिवारः आत्मनिर्भरत्वस्य उदाहरणं जातः अस्ति। अधुना रञ्जनायाः मासिकायाः आयाः प्रायः विंशतिसहस्ररूप्यकाः सन्ति तथा वार्षिकायाः आयाः प्रायः द्विलक्षपञ्चाशतिसहस्ररूप्यकपर्यन्तं प्राप्ताः सन्ति। सा न केवलं स्वपरिवारस्य व्ययं वहति, अपि तु ग्रामस्य अन्यासु महिलासु अपि रोजगारं दत्त्वा ताः आत्मनिर्भराः करोति। स्वोपार्जितधनेन सा स्वसन्तानानां शिक्षां, गृहव्ययं तथा भविष्यस्य आवश्यकतानि च पूर्णयति।
डिगारा-ग्रामनिवासिनी रञ्जना-गौतम (२४ वर्षीया) तदा जीवनपरिवर्तनं अनुभूतवती, यदा विवाहानन्तरं एकस्मिन् दुर्घटनायां तस्याः पतिः कार्यकरणे असमर्थः अभवत्। परिवारस्य एकमेव आयस्रोतः तदा अवरुद्धः। एतादृशेषु विषमपरिस्थितिषु रञ्जनया निराशां न स्वीक्रिय, अपि तु परिवारस्य सम्पूर्णं दायित्वं स्वस्कन्धेषु वहितुं निर्णयः कृतः।
योगीसरकारस्य योजनाभिः स्वयंसहायता-समूहस्य सहयोगेन च रञ्जनया बैंकतः ऋणं गृहीत्वा हार्डवेयर्-विक्रयव्यवसायस्य आरम्भः कृतः। प्रारम्भकाले गृहदायित्वं, पत्युः सेवा, नूतनव्यवसायस्य प्रबन्धनं च सरलम् न आसीत्, किन्तु सततपरिश्रमः शिक्षणाभिलाषा च मार्गं सुगमं कृतवती।
उत्तरप्रदेशराज्य-ग्रामीण-आजीविकामिशनस्य मिशन-निदेशिका दीपा-रञ्जनः अवदत् यत् “लखपतिदिदीनां विकासं कृत्वा ताः करोडपतिदिदीः करणमेव अस्माकं लक्ष्यं अस्ति।” मुख्यमन्त्रिणः योगी आदित्यनाथस्य दृष्टिकोणेन प्रदत्तं प्रशिक्षणं, विपणनसम्बद्धा बोधः, नूतनप्रौद्योगिक्याः ज्ञानं च रञ्जनायाः व्यवसायं दृढं कृतवन्ति। एषा कथा केवलं एकायाः महिलायाः न, अपि तु परिवर्तमाने ग्रामीणउत्तरप्रदेशे, यत्र महिलाः अधुना सहाय्यस्य अपेक्षिण्यः न सन्ति, अपि तु परिवारस्य समाजस्य च दृढा आधारशिलाः भवन्ति।
हिन्दुस्थान समाचार