Enter your Email Address to subscribe to our newsletters

नवदेहली, २० दिसम्बरमासः (हि.स.)।
केंद्रीयस्य आयव्ययकस्य २०२६–२७ आर्थिकवर्षस्य गणनारम्भः प्रारब्धः अस्ति। प्रतिवर्षं केंद्रीयम् आयव्ययकं फरवरीमासस्य प्रथमदिनाङ्के प्रस्तुतं भवति। अस्मिन् वर्षे तु २०२६ तमे वर्षे फरवरीमासस्य प्रथमदिनः रविवासरः अस्ति। अतः प्रश्नः उद्भवति—किम् अस्मिन् वर्षे केंद्रीयम् आयव्ययकं रविवासरे एव प्रस्तुतं भविष्यति, उत सोमवासरे द्वितीयदिनं प्रस्तूयते?
सन् २०१७ तः आरभ्य प्रधानमन्त्री नरेन्द्रमोदेः नेतृत्वे राष्ट्रीयजनतान्त्रिकसंघस्य (राजग) सर्वकारेण केंद्रीयायव्ययकस्य प्रस्तुति-तिथिः फरवरीमासस्य प्रथमदिनः निश्चितः कृतः अस्ति। किन्तु अद्यावधि एषा तिथिः कदापि रविवासरे न आगता। अत एव एषः विषयः चर्चायां वर्तते—किं अस्मिन् वर्षे अपि आयव्ययकं फरवरीमासस्य प्रथमदिन एव प्रस्तुतं भविष्यति, उत तिथेः परिवर्तनं क्रियते? यतः सन् २०२६ तमे वर्षे फरवरीमासस्य प्रथमदिनः रविवासरः अस्ति, तस्मिन् दिने एव गुरुरविदासजयंती अपि भवति।
केंद्रीयवित्तमन्त्री निर्मला सीतारमणमहाभागायाः एतत् अष्टमं निरन्तरम् आयव्ययकं भविष्यति, तथा च मोदी-सर्वकारस्य तृतीयकार्यकालस्य द्वितीयं पूर्णायव्ययकम्। सा निरन्तरं अष्ट-आयव्ययकानि प्रस्तुतवती देशस्य प्रथमवित्तमन्त्री भविष्यति। पूर्वं मोरारजी देसाई-इत्यनेन अपि अष्ट पूर्णायव्ययकं प्रस्तुतानि आसन्, किन्तु सः भिन्न-भिन्न-प्रधानमन्त्रिणोः कार्यकालेषु एतत् कृतवान्। सीतारमण तु प्रधानमन्त्री मोदेः नेतृत्वे द्वयोः निरन्तरयोः सर्वकारयोः अधीनम् एतादृशीं उपलब्धिं प्राप्स्यति।
सन् २०२५ तमे वर्षे गुरु-रविदासजयंती फरवरीमासस्य द्वादशदिनांकं (बुधवासरः) अभवत्, या संसदस्य आयव्ययकसत्रस्य मध्ये आसीत्। तस्मात् कारणात् तस्मिन् दिने उभयोः सदनयोः कापि सभा न अभवत्। तस्मात् पूर्वं अपि सन् १९८१ तमे वर्षे फरवरीमासस्य अष्टादशदिनं गुरु-रविदासजयंती-निमित्तं सदनस्य कार्यवाही स्थगिता आसीत्। यदि फरवरीमासस्य प्रथमदिने आयव्ययकं प्रस्तुतं भवति, तर्हि सन् २०१७ तः अनन्तरं प्रथमवारं भविष्यति यदा रविवासरे आयव्ययकप्रस्तुतिः भविष्यति। अधिकारीणां कथनम् अस्ति यत् सर्वकारः फरवरीमासस्य प्रथमदिनस्य परम्परां रक्षितुम् इच्छति।
संसदीयकार्यमन्त्री किरण् रिजिजू अवदत् यत् आयव्ययकस्य तिथिविषये निर्णयः समये आगते मन्त्रिमण्डलसमित्या गृह्यते। तथापि गुरु-रविदासजयंती केंद्रसर्वकारस्य ‘सार्वजनिकावकाश’ सूचीमध्ये न, अपितु ‘सीमितावकाश’ सूचीमध्ये एव अस्ति। अतः रविवासरः सन्नपि संसदस्य विशेषसभां आहूय केंद्रीयम् आयव्ययकं प्रस्तुतं कर्तुं शक्यते।---------------
हिन्दुस्थान समाचार / अंशु गुप्ता