Enter your Email Address to subscribe to our newsletters

वाराणसी, 20 दिसंबरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां स्थितं बनारस-रेल-इञ्जिन-कारखानं (बरेका) राजभाषा-हिन्द्याः उत्कृष्ट-कार्यान्वयनार्थं महत्त्वपूर्णां उपलब्धिं प्राप्तवती। रेल-मन्त्रालयेन, रेल- बोर्डेन च सञ्चालितायां रेल-मन्त्री-राजभाषा-शील्ड्/ट्रॉफी तथा चल-वैजयन्ती-पुरस्कार-योजनायां (आधार-वर्षः 2024) अन्तर्गतं बरेका आदर्श-उत्पादन-एकक इति रूपेण प्रथम-पुरस्काराय चयनितम् अस्ति। शनिवासरे एतां सूचनां बरेका-जनसम्पर्क-कार्यालयेन प्रदत्ता। अवगतं यत्, वर्षे 2024 मध्ये हिन्दी-भाषायां कृतस्य उत्कृष्टस्य, प्रभावशीलस्य च कार्यस्य कारणेन बरेका एषः सम्मानः प्रदीयते।
अस्मिन् पुरस्कार-अन्तर्गतं बरेका रेल-मन्त्री-राजभाषा-शील्ड् सह १४,००० (चतुर्दश-सहस्र) रूप्यकाणां पुरस्कार-राशिं अपि प्राप्स्यति। एषः पुरस्कारः २६ दिसम्बर तिथौ अपराह्णे ३:३० वादने, रेल-भवने स्थिते सम्मेलन-कक्षे, आयोजितायां रेलवे- बोर्ड-राजभाषा-कार्यान्वयन-समितेः सभायां रेलवे- बोर्डस्य अध्यक्षेन तथा मुख्य-कार्यपालक-अधिकारीणा प्रदास्यते।
अस्य महत्त्वपूर्णस्य उपलब्धेः प्रसङ्गे बरेका-महाप्रबन्धकः सोमेश-कुमारः सर्वान् अधिकारीन् कर्मचारिणश्च हार्दिकतया अभिनन्दितवान्। एषः सम्मानः बरेका-कारखाने राजभाषा-हिन्द्याः सतत-प्रयोगस्य, प्रोत्साहनस्य, प्रभावशील-कार्यान्वयनस्य च प्रत्यक्षं प्रमाणम् अस्ति तथा भविष्ये हिन्दी-भाषाम् अधिकं सशक्तं कर्तुं प्रेरणास्रोतः भविष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता