यौन-उत्पीड़ननिषेध सप्ताहे जागरूकताभियानम्आयोजितम्
सहरसा, 21 दिसंबरमासः (हि.स.)। सर्वनारायणसिंहरामकुमारसिंहमहाविद्यालये यौन-उत्पीड़ननिषेधसप्ताहस्य अन्तर्गतं जनजागरूकताअभियानः सञ्चालितः। ज्ञातव्यं यत् नवीनश्रमसंहिता कार्यस्थले सुरक्षायाः प्रत्याभूतिं ददाति। अस्य हेतुना वर्षे 2013 तमे कार्यस्थले महि
निषेध सप्ताह


सहरसा, 21 दिसंबरमासः (हि.स.)।

सर्वनारायणसिंहरामकुमारसिंहमहाविद्यालये यौन-उत्पीड़ननिषेधसप्ताहस्य अन्तर्गतं जनजागरूकताअभियानः सञ्चालितः। ज्ञातव्यं यत् नवीनश्रमसंहिता कार्यस्थले सुरक्षायाः प्रत्याभूतिं ददाति। अस्य हेतुना वर्षे 2013 तमे कार्यस्थले महिलानां यौनउत्पीड़नस्य निवारणनिषेधप्रतिषेधविषयकः अधिनियमः प्रवर्तितः।

अस्मिन् अवसरे महाविद्यालयस्य प्रधानाचार्यः प्रो डॉ अशोककुमारसिंहः अवदत् यत् अस्माकं महाविद्यालये यौनउत्पीड़नस्य विषये कठोरः प्रतिबन्धः भविष्यति। यदि मम संज्ञानं प्रति कश्चित् एतादृशः प्रकरणः आगमिष्यति तर्हि तस्मिन् कठोरकार्यवाही क्रियते। आवश्यकतायां विधिसलाहः अपि स्वीकरिष्यते।

सः सहकर्मिभ्यः अपि अवदत् यत् यूयं सर्वे अस्य विषयस्य गाम्भीर्यं अवगच्छत। यौनउत्पीड़नम् अपराधः अस्ति अतः तद् अपराधवत् एव स्वीकरणीयम्। छात्रेभ्यः छात्राभ्यः च सः अवदत् यत् यूयं स्वभावनासु संयमं पालयत। महाविद्यालये एतादृशं किमपि कार्यं मा कुरुत येन संस्थानस्य कीर्तिः मलिनीकृता भवेत्। एषः विषयः महिलानां गरिमायाः सम्मानस्य च सह सम्बद्धः अस्ति अतः अस्य संवेदनशीलता सर्वैः अवगन्तव्या।

अस्मिन् कार्यक्रमे डॉ धर्मव्रतचौधरीः अवदत् यत् देशस्य अर्थव्यवस्थां सर्वोच्चस्तरे नेतुं महिलानां सक्रियसहभागिता अत्यावश्यकी अस्ति। तदर्थं कार्यस्थले महिलानां यौनउत्पीड़नस्य अभावः सुनिश्चितः करणीयः।

कार्यक्रमस्य समन्वयिका डॉ जीनतअफसा अवदत् यत् यौनउत्पीड़नजागरूकतासप्ताहः अस्मान् सम्मानस्य सुरक्षायाः च महत्त्वं शिक्षयति। प्रत्येकव्यक्तेः भयविहीने सुरक्षिते वातावरणे जीवनस्य अधिकारः अस्ति। मौनं अपराधं वर्धयति जागरूकता तु तं निरोधयति। आगच्छत सर्वे वयं सम्यक्पक्षे स्थित्वा परिवर्तनं आनयाम।

अस्मिन् अवसरः डॉ अनिलकुमारसिंहः डॉ सुधीरकुमारसिंहः अन्ये च बहवः शिक्षकाः शिक्षकेतरकर्मचारिणः छात्राः च उपस्थिताः आसन्।

हिन्दुस्थान समाचार