Enter your Email Address to subscribe to our newsletters


- केंद्रीय वन मंत्री अकरोत्सुंदरबने वन्यजीव संरक्षणे मंथनं,व्याघ्रहस्तिनोः संरक्षणस्य राष्ट्रिय रणनीतीनां समीक्षा
कोलकाता, 21 दिसंबरमासः (हि.स.)। व्याघ्रसंरक्षणप्राधिकरणस्य अष्टाविंशतितमी (२८)तत्र केन्द्रीयमन्त्री भूपेन्द्रयादवः अवदत् यत् भारतस्य बाघसंरक्षणमाडेलं समग्रे विश्वे प्रशंस्यते। तेन वैज्ञानिकाधारितं प्रबन्धनम्, विशालभूभागस्तरीया योजना, स्थानीयसमुदायानां सहभागिता, राज्येषु परस्परसमन्वयः, अन्ताराष्ट्रियसहयोगश्च अत्यावश्यकाः इति प्रतिपादितम्। अस्यां गोष्ठ्याम् अष्टादशे अप्रैलबासरे सम्पन्नायाः पूर्वगोष्ठ्याः निर्णयाः अनुमोदिताः, तेषां कार्यान्वयनस्य समीक्षापि कृता।
केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनमन्त्रिणः अध्यक्षतायां रविवासरे पश्चिमबङ्गालराज्ये सुन्दरबनव्याघ्राणाम् आरक्षणे व्याघ्रहस्तिसंरक्षणसम्बद्धे द्वे राष्ट्रिये उपवेशने आयोजिते। एतासु तत्र देशस्य सर्वतः वरिष्ठाः अधिकारिणः, वैज्ञानिकाः, वन्यजीवविशेषज्ञाः, विविधराज्यानां प्रतिनिधयश्च उपस्थिताः। बाघपरियोजनायाः हस्तिपरियोजनायाश्च प्रगतिसमीक्षा तथा भविष्यत्संरक्षणरणनीतीनां दृढीकरणमेव मुख्योद्देशम् आसीत्।
गोष्ठ्यां व्याघ्राणाम्आरक्षेषु ले समुपस्थितानां परिस्थितीनां विषये चर्चा कृता, व्याघ्रसंरक्षणयोजनाश्च अनुमोदिताः। मानवबाघसंघर्षन्यूनकरणाय स्वीक्रियमानायाः त्रिस्तरीयरूपायाः रणनीतेः विशेषं बलं दत्तम्। व्याघ्ररक्षणबाह्यप्रदेशेषु बाघप्रबन्धनसम्बद्धपरियोजनायाः प्रगतिरपि विवेचिता। अनेकराज्येषु कर्मचाऱ्याभावः, वित्तीयदबावः, आवासक्षेत्रहानिः, बाह्यप्रजातिसमस्या च गम्भीराः इति निर्दिश्य आवश्यकनिर्देशाः दत्ताः।चीतापरियोजनायाः विस्तारः, नवीनप्रदेशेषु तस्य मूल्याङ्कनम्, बाघस्थानान्तरणम्, शिकारप्रजातीनां सङ्ख्यावृद्धिः, भूभागप्रबन्धनयोजना, मांसाहारिवन्यजीवस्वास्थ्यप्रबन्धनसम्बद्धाः प्रशिक्षणकार्यक्रमाश्च अनुमोदिताः। राष्ट्रियवन्यजीवबोर्डस्य स्थायीसमितिं प्रति प्रेषितेषु प्रस्तावेषु बाघसंरक्षणप्राधिकरणस्य भूमिकाया अपि समीक्षा कृता।
केन्द्रीयमन्त्रिणा अवगतं कृतं यत् देशे षष्ठचरणीयः अखिलभारतीयबाघमूल्याङ्कनकार्यक्रमः तीव्रतया प्रवर्तते। नवम्बरमासात् २०२५ तमे वर्षे भूमिसर्वेक्षणानि आरब्धानि। विभिन्नप्रदेशेषु प्रशिक्षणकार्यक्रमाः प्रचलन्ति। चीतापरियोजनायाः अन्तर्गतं दक्षिणाफ्रिका, नामीबिया, बोत्स्वाना इत्यादिदेशैः सह अन्ताराष्ट्रियसहयोगोऽपि निरन्तरं वर्धते। उच्चतमन्यायालयस्य हालियादेशानां बाघसंरक्षणे प्रभावः अपि विचारितः।
एतस्मिन्नेव प्रसङ्गे हस्तिपरियोजनायाः द्वाविंशतितमी (२२) संचालनसमितेः उपवेशनेऽपि सम्पन्ना। तत्र पूर्वबैठकायाः निर्णयेषु कृतकार्याणां पुष्टि कृता। दक्षिणभारतस्य पूर्वोत्तरभारतस्य च कृते सिद्धानां क्षेत्रीयकार्ययोजनानां स्थितिः प्रस्तुत्याऽवगमिता, राज्येषु परस्परसमन्वयस्य आवश्यकता विशेषतः प्रतिपादिता।तत्र अखिलभारतीयसमन्वितहस्तिगणनायाः प्रगतिसमीक्षा कृता। वैज्ञानिकसाक्ष्याधारितायाः योजनायाः कृते एषा अत्यन्तमहत्त्वपूर्णा इति कथितम्। नीलगिरिहस्तिआरक्षस्य आदर्शसंरक्षणयोजना, बद्धहस्तिनां डीएनए प्रोफाइलिङ्कार्यमपि चर्चितम्, यत् हस्तिकल्याणं वैज्ञानिकप्रबन्धनं च सुदृढयति।
मानवहस्तिसंघर्षस्य देशव्यापीस्थितेः व्यापकसमीक्षा अपि कृता। संघर्षकारणानि, तन्न्यूनकरणोपायाः, राज्येषु मुआवजाव्यवस्थायाः स्थितिश्च विचारिता। हस्तिजनसंख्यामूल्याङ्कनपद्धतीनां समीक्षा, असमराज्यं रिहुचिराङ्गहस्तिआरक्षे एकीकृतसंरक्षणरणनीतयः, भविष्यकार्ययोजनाश्च चर्चिताः।
गोष्ठ्यां एतदपि निश्चयितं यत् सर्वेषु हस्तिआरक्षेषु प्रबन्धनप्रभावशीलतामूल्याङ्कनं क्रियते, यस्य कृते वनविकासनिधितः साहाय्यं प्रदीयते। बान्धवगढप्रदेशे हस्तिगलियाराणां, आवासोपयोगस्य, संघर्षसंवेदनशीलप्रदेशानां च विशेषाध्ययनस्य प्रस्तावोऽपि प्रस्तुतः।
अस्मिन् अवसरे केन्द्रीयमन्त्रिणा षट् प्रकाशनानि विमोचितानि। तेषु चीतापरियोजनायाः प्रगतिविषयकं पुस्तकम्, बाघसंरक्षणप्राधिकरणपत्रिकायाः नवीनाङ्कः, भारतस्य व्याघ्रसंरक्षणस्य संस्थागतयात्राविषयका पुस्तिका, देशस्य बाघआरक्षेभ्यः रोचकतथ्यानि कथाश्च, बद्धहस्तिप्रबन्धनस्य सर्वोत्तमप्रक्रियाविषयका मार्गदर्शिका, हस्तिपरियोजनायाः त्रैमासिकपत्रिकायाः दिसम्बरमासस्य २०२५ तमे वर्षे प्रकाशितः अङ्कश्च अन्तर्भवन्ति।
उपवेशनान्ते पुनः प्रतिपादितं यत् केन्द्रसर्वकारः वैज्ञानिकचिन्तनस्य, प्रौद्योगिक्युपयोगस्य, राज्येषु सहकारस्य, समुदायकेन्द्रितदृष्टेः च माध्यमेन व्याघ्राणां हस्तिनां च सुरक्षितं स्थायि च भविष्यं सुनिश्चितुं दृढसङ्कल्पिता अस्ति।-------------------
हिन्दुस्थान समाचार