मुख्यमंत्री सायोऽद्य आंध्र प्रदेशभ्रमणे
रायपुरम् 21 दिसंबरमासः (हि.स.) l छत्तीसगढराज्यस्य मुख्यमंत्री विष्णुदेव सायः अद्य रविवासरे आन्ध्रप्रदेशराज्यस्य यात्रायां भविष्यति। सः अपराह्णे सार्धद्विवादने रायपुर विमानक्षेत्रात् प्रस्थानं करिष्यति। ततः सः आन्ध्रप्रदेशस्य ईस्ट् गोदावरी जनपदं ग
मुख्यमंत्री विष्णुदेव साय


रायपुरम् 21 दिसंबरमासः (हि.स.) l

छत्तीसगढराज्यस्य मुख्यमंत्री विष्णुदेव सायः अद्य रविवासरे आन्ध्रप्रदेशराज्यस्य यात्रायां भविष्यति। सः अपराह्णे सार्धद्विवादने रायपुर विमानक्षेत्रात् प्रस्थानं करिष्यति। ततः सः आन्ध्रप्रदेशस्य ईस्ट् गोदावरी जनपदं गमिष्यति।

अपराह्णे त्रिवादनत्रिंशन्मिनिटे सः अटल–मोदी सुपारीपालन यात्रायां सहभागिता करिष्यति। सायंकाले चतुर्वादनपञ्चदशमिनिटे पूर्वप्रधानमन्त्रिणः अटल बिहारी वाजपेयिनः प्रतिमायाः अनावरणं करिष्यति। तदनन्तरं अटल बिहारी वाजपेयीसम्बद्धायाḥ छायाचित्रप्रदर्शन्याः शुभारम्भमपि करिष्यति।

तत्पश्चात् रात्रौ अष्टवादनत्रिंशन्मिनिटे सः आन्ध्रप्रदेशात् रायपुर नगरं प्रति पुनरागमनं करिष्यति।

---------------

हिन्दुस्थान समाचार