Enter your Email Address to subscribe to our newsletters

भारतदेशे प्रतिवर्षं द्वाविंशतितमे दिसम्बरमासस्य दिने राष्ट्रीय गणित दिवसः आचर्यते। एषः दिवसः महान् भारतीयः गणितज्ञः श्रीनिवासः रामानुजनः इत्यस्य जयन्त्याः अवसरः। रामानुजनस्य जन्म १८८७ तमे वर्षे दिसम्बरमासस्य २२ दिने तमिलनाडुराज्यस्य इरोड् नगरे अभवत्।
गणितक्षेत्रे तस्य असाधारणयोगदानं सम्मानयितुं तथा च युवानां मध्ये गणिते रुचिं वर्धयितुं भारतसरकारेण २०१२ तमे वर्षे अयं दिवसः राष्ट्रीय गणित दिवसः इति घोषितः।
श्रीनिवासः रामानुजनः संख्यासिद्धान्ते, अनन्तश्रृङ्खलासु, सततभिन्नेषु, गणितीयविश्लेषणे च स्वीयैः मौलिकैः कार्यैः विख्यातः। औपचारिकशिक्षायाः अभावेऽपि सः अनेके अद्भुताः गणितसूत्राणि सिद्धान्तांश्च प्रदत्तवान्, ये अद्यापि विश्वस्य गणितज्ञैः प्रशंस्यन्ते। तस्य बहवः सिद्धान्ताः आधुनिकगणिते, संगणकविज्ञाने, भौतिकविज्ञाने च उपयोगिनः सिद्धाः।
राष्ट्रीय गणित दिवसस्य अवसरः देशस्य सर्वेषु विद्यालयेषु, महाविद्यालयेषु, विश्वविद्यालयेषु च गणितसम्बद्धाः सेमिनाराः, प्रश्नोत्तरीकार्यक्रमाः, कार्यशालाः, प्रतियोगिताश्च आयोज्यन्ते। अस्य मुख्योद्देश्यः छात्रान् गणितस्य महत्वं बोधयितुं तथा च एतत् संदेशं दातुं यत् गणितं केवलं अङ्कानां क्रीडा न, अपि तु जीवनस्य विज्ञानस्य च आधारः अस्ति। एषः दिवसः अस्मान् रामानुजनस्य प्रतिभया, परिश्रमेण, नवाचारभावेन च प्रेरयति।
महत्त्वपूर्णाः घटनाः
१२४१ तमे वर्षे मंगोलसेनानायकः हुलागु खानस्य प्रमुखः सहायकः लाहौरं जयितवान्।
१८४३ तमे वर्षे रवीन्द्रनाथठागोरस्य पिता देवेंद्रनाथठागोरः ब्रह्मसमाजे सम्मिलितः।
१८५१ तमे वर्षे भारतदेशे प्रथमं मालवाहकरेलयानं रुड़कीतः पिरनपर्यन्तं सञ्चालितम्।
१८८२ तमे वर्षे थोमस एडिसननिर्मितैः विद्युत्दीपैः प्रथमवारं क्रिसमसवृक्षः अलङ्कृतः।
१९१० तमे वर्षे अमेरिकादेशे प्रथमं डाकबचतपत्रं निर्गतम्।
१९४० तमे वर्षे मानवेंद्रनाथरायेन रेडिकल् डेमोक्रेटिक् पार्टी स्थापिता।
१९४१ तमे वर्षे युगोस्लावियायां मार्शल् टीटो नूतनसेनाब्रिगेडस्य गठनं कृतवान्।
१९४१ तमे वर्षे अमेरिकाप्रधानः फ्रैंकलिन् डी. रुजवेल्टः तथा च ब्रिटेनप्रधानमन्त्री विन्स्टन चर्चिलः वॉशिंग्टननगरे भेटितवन्तौ।
१९४७ तमे वर्षे इटलीसंसदे नूतनं संविधानं स्वीकृतम्।
१९५७ तमे वर्षे ओहायोप्रदेशस्य कोलंबो प्राणिसंग्रहे कोलो नाम गुरिल्लाशिशोः जन्म अभवत्।
१९६१ तमे वर्षे अमेरिकादेशे नेवाडाप्रदेशे परमाणुपरीक्षणं कृतम्।
१९६६ तमे वर्षे नूतनदिल्लीस्थं जवाहरलालनेहरू विश्वविद्यालयं स्थापितम्।
१९७१ तमे वर्षे सोवियत्संघे भूमिगतं परमाणुपरीक्षणं कृतम्।
१९७५ तमे वर्षे विख्यातसंगीतकारः वसन्तदेसाई दिवंगतः।
१९७८ तमे वर्षे थाईलैण्डदेशे संविधानं स्वीकृतम्।
१९८९ तमे वर्षे रोमानियादेशे राष्ट्रपति चाऊशेस्क्यू पदच्युतः।
२००२ तमे वर्षे काठमांडूनगरे दक्षेसदेशानां स्वयंसेवीसंस्थासु दुरुपयोगविरोधी बैठक आरब्धा।
२००५ तमे वर्षे ईरानदेशेन सद्दामहुसैनविरुद्धं मुकदमे याचना कृता।
२००६ तमे वर्षे भारतपाकिस्तानयोः संयुक्तकार्यदलः गठितः।
२००७ तमे वर्षे फ्रेंचगुआनास्थात् प्रक्षेपितेन एरियनरॉकेटेन द्वौ उपग्रहौ स्थापितौ।
२००८ तमे वर्षे मन्त्रिगणसमूहः वेतनविषयकां प्रतिवेदनं प्रधानमन्त्रिणे समर्पितवान्।
२०१० तमे वर्षे अमेरिकी राष्ट्रपतिः बराक् ओबामा समलैंगिकसम्बद्धकानूनं अनुमोदितवान्।
जन्म
१६६६ गुरु गोविन्दसिंहः सिखानां दशमः अन्तिमश्च गुरुः।
१८६६ मौलाना मजहरुलहकः स्वतन्त्रतासंग्रामयोद्धा।
१८८७ श्रीनिवासः अयंगर् रामानुजनः प्रसिद्धः गणितज्ञः।
१९४८ पंकजसिंहः आधुनिकहिन्दीकाव्यस्य प्रमुखः कविः।
निधनानि
१९५८ तारकनाथदासः प्रसिद्धः क्रान्तिकारी।
१९७५ वसन्तदेसाई भारतीयचित्रपटसंगीतकारः।
२०१४ माधवी सरदेसाई कोंकणीसाहित्यकारा।
महत्त्वपूर्णः दिवसः
राष्ट्रियगणितदिवसः
(श्रीनिवासरामानुजनस्य जयन्ती)
हिन्दुस्थान समाचार