Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 21 दिसंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र मोदी अद्य गुवाहाटी नगरे ब्रह्मपुत्रा नद्याः क्रूजयानस्य उपरि परीक्षा पे चर्चा कार्यक्रमस्य अन्तर्गतं असमराज्यस्य पञ्चविंशतिः (२५) प्रतिभाशालिभिः विद्यार्थिभिः सह संवादं कृतवान्। एषा अनोख्या व्यवस्था आसीत्, यतः परीक्षायाः पूर्वं छात्रैः सह प्रधानमन्त्रिणः वार्षिकसंवादस्य परम्परागतस्थलात् भिन्नं स्थानं अत्र चयनितम्।
संवादानन्तरं प्रधानमन्त्री गुवाहाटी नगरस्य पश्चिम बोरागांव क्षेत्रे स्थिते शहीद स्मारक स्थले असमआन्दोलनस्य हुतात्मभ्यः श्रद्धाञ्जलिं दातुं प्रस्थितवान्। तदनन्तरं सः डिब्रूगढ़ जनपदस्य नामरूप क्षेत्रं गमिष्यति, यत्र सः द्वादशलक्षसप्ततिसहस्र (१२.७ लाख) मीट्रिक टन क्षमतायुक्तस्य उर्वरकनिर्माण कारखानस्य आधारशिलान्यासं करिष्यति। अयं परियोजनाः क्षेत्रे उर्वरक-उत्पादनस्य सुदृढीकरणाय तथा कृषिविकासस्य प्रोत्साहनाय निर्मिता अस्ति।
अयं दौरा गुवाहाटी नगरे लोकप्रिया गोपीनाथ बोरदोलोई अन्ताराष्ट्रिय विमानक्षेत्रस्य नूतनस्य टर्मिनलभवनस्य उद्घाटनात् एकदिनानन्तरं सम्पन्नः। तस्मिन् उद्घाटनसमारोहकाले प्रधानमन्त्रिणः टर्मिनलपरिसरस्य प्रवेशद्वारे भारत रत्न लोकप्रिया गोपीनाथ बोरदोलोई, असमराज्यस्य प्रथममुख्यमन्त्रिणः, प्रतिमायाः अनावरणमपि कृतम्।
हिन्दुस्थान समाचार