उपायुक्तः अकरोत् कंबलवितरणम्
पश्चिमी सिंहभूमः , 21 दिसंबरमासः (हि.स.)। पश्चिमी सिंहभूमजिलान्तर्गतस्य नगरपरिषद् क्षेत्रे वर्धमानां शीतलतां दृष्ट्वा जिलादण्डाधिकारी–सह–उपायुक्तः चन्दन कुमारः शनिवासरस्य रात्रिकाले नगरस्य प्रमुखचतुष्पथस्सु भ्रमणं कृत्वा कम्बलवितरणं कृतवान्। अस्म
कंबल वितरण करते उपयुक्त चंदन कुमार


पश्चिमी सिंहभूमः , 21 दिसंबरमासः (हि.स.)।

पश्चिमी सिंहभूमजिलान्तर्गतस्य नगरपरिषद् क्षेत्रे वर्धमानां शीतलतां दृष्ट्वा जिलादण्डाधिकारी–सह–उपायुक्तः चन्दन कुमारः शनिवासरस्य रात्रिकाले नगरस्य प्रमुखचतुष्पथस्सु भ्रमणं कृत्वा कम्बलवितरणं कृतवान्।

अस्मिन् अवसरे सामाजिकसुरक्षाकोषाङ्गस्य सहायिका निदेशिका खुशेन्द्रा सोनकेशरी तथा चाईबासा नगरपरिषदस्य प्रशासिका सन्तोषनी मुर्मूः अपि उपस्थिते आस्ताम्।

उपायुक्तः चन्दन कुमारः वृद्धनागरिकान् प्रति आह्वानं कृतवान् यत् शीतकालसमये स्वस्य विशेषं ध्यानं कुर्वन्तु तथा केवलं अत्यावश्यककारणेषु एव गृहात् बहिः निर्गच्छन्तु। सः अवदत् यत् शीतात् संरक्षणार्थं जिल्लायाः सर्वेषु प्रखण्डेषु सामाजिकसुरक्षाकोषाङ्गस्य माध्यमेन कम्बलवितरणकार्यं निरन्तरं प्रवर्तते।

कम्बलवितरणसमये उपायुक्तेन वृद्धजनानां कृते स्वास्थ्यसुरक्षासम्बद्धाः आवश्यकाः सावधान्यः अपि सम्यक् रूपेण अवगताः करिताः।

---------------

हिन्दुस्थान समाचार