भारतेन बोधितं, दिल्ल्यां बांग्लादेश उच्चायोगस्य समक्षं प्रदर्शनम्आधृत्य जायते दुष्प्रचारः
नवदिल्ली, 21 दिसंबरमासः (हि.स.)। विदेशमन्त्रालयेन रविवासरे अत्र स्थितस्य बाङ्गलादेश-उच्चायोगस्य सम्मुखे ह्यः सम्पन्नस्य प्रदर्शनस्य विषये प्रवर्तमाने दुष्प्रचारसम्बन्धे उक्तं यत् शान्तिपूर्णे विरोधप्रदर्शने किमपि सुरक्षालङ्घनं न अभवत्। तदनन्तरं च
MEA


नवदिल्ली, 21 दिसंबरमासः (हि.स.)।

विदेशमन्त्रालयेन रविवासरे अत्र स्थितस्य बाङ्गलादेश-उच्चायोगस्य सम्मुखे ह्यः सम्पन्नस्य प्रदर्शनस्य विषये प्रवर्तमाने दुष्प्रचारसम्बन्धे उक्तं यत् शान्तिपूर्णे विरोधप्रदर्शने किमपि सुरक्षालङ्घनं न अभवत्। तदनन्तरं च पार्श्ववर्तिनं देशं प्रति यथार्थं दर्शयन्, बाङ्गलादेशे अल्पसंख्यकानां विरुद्धं घटितेषु आक्रमणेषु तथा एकस्य हत्याघटनायां गम्भीरां चिन्तां व्यक्तवती।

विदेशमन्त्रालयस्य आधिकारिकप्रवक्ता रणधीरजयस्वालः माध्यमप्रश्नानां प्रत्युत्तरं दत्त्वा अवदत् यत् बाङ्गलादेशस्य केषुचित् माध्यमवर्गेषु ह्यः घटितां घटनां प्रति भ्रामकप्रचारः क्रियते। भारतं पुनः स्पष्टं कृतवत् यत् वियना-सन्धेः अनुरूपेण स्वक्षेत्रे स्थितानां विदेशीयमिशनानां कार्यालयानां च सुरक्षां सुनिश्चितुं सः दृढप्रतिबद्धः अस्ति।

तेन उक्तं यत् यथार्थतः विंशतिः पञ्चविंशतिश्च युवानः बाङ्गलादेशस्य मयमनसिंह-नगरे दीपुचन्द्रदासस्य नृशंसहत्यायाः विरोधार्थं एकत्रिताः आसन्। प्रदर्शनकारिणः बाङ्गलादेशे अल्पसंख्यकानां सुरक्षां याचितवन्तः। प्रदर्शनकाले कदापि बाड़भेदनस्य वा सुरक्षासमस्यायाः सृजनस्य कश्चन प्रयासः न कृतः। घटनास्थले नियुक्ता पुलिस् केवलं केषुचित् निमेषेषु एव समूहं विघटितवती। अस्य सम्पूर्णघटनायाः दृश्यसाक्ष्याणि सार्वजनिकरूपेण उपलब्धानि सन्ति।

प्रवक्त्रा उक्तं यत् भारतः बाङ्गलादेशे विकसितमानां परिस्थितिं प्रति समीपेन दृष्टिं धारयति। भारतीयाधिकारीणः बाङ्गलादेशीयाधिकारीभिः सह निरन्तरं सम्पर्के सन्ति तथा अल्पसंख्यकानां विरुद्धं घटमानानां आक्रमणानां विषये स्वां तीव्रां चिन्तां तैः सह साझा कृतवन्तः। तदेव च दीपुचन्द्रदासस्य हत्यायाः दोषिणः न्यायपीठं प्रति नेतुं आग्रहः कृतः।

उल्लेखनीयं यत् बाङ्गलादेशे मोहम्मदयूनुसस्य सरकारस्य गठनानन्तरात् अल्पसंख्यकानां सुरक्षां प्रति निरन्तरं प्रश्नाः उद्भवन्ति। अलीकाले उस्मानहादी इत्यस्य मृत्योनन्तरं देशस्य अल्पसंख्यकसमुदायाः पुनः कट्टरपन्थिनां लक्ष्यं जाताः। एतस्मिन्नेव काले बाङ्गलादेशस्य मयमनसिंह-नगरे हिंस्रजनसमूहेन दीपुचन्द्रदासः प्रहारैः प्रहारैः हतः आसीत्।

---------------

हिन्दुस्थान समाचार