मध्यप्रदेशस्य बैतूले षड् दिवसीयः आदि बाजार महोत्सवः अद्य
भोपालम्, 21 दिसंबर मासः(हि.स.)। मध्यप्रदेशराज्यस्य बैतूल नगरे केन्द्रसरकारस्य ट्राइफेड् संस्थया लालबहादुरशास्त्री क्रीडाङ्गणे अद्य आरभ्य षड्दिवसीयः आदि बाज़ार महोत्सवः आयोज्यते। भारतस्य जनजातीयकला संस्कृतिं च प्रदर्शयितुं तथा जनजातीयसमुदायस्य आजीवि
केंद्रीय राज्य मंत्री दुर्गादास उईके (फाइल फोटो)


भोपालम्, 21 दिसंबर मासः(हि.स.)। मध्यप्रदेशराज्यस्य बैतूल नगरे केन्द्रसरकारस्य ट्राइफेड् संस्थया लालबहादुरशास्त्री क्रीडाङ्गणे अद्य आरभ्य षड्दिवसीयः आदि बाज़ार महोत्सवः आयोज्यते। भारतस्य जनजातीयकला संस्कृतिं च प्रदर्शयितुं तथा जनजातीयसमुदायस्य आजीविकाअवसरान् सुदृढीकर्तुं उद्दिश्य आयोजिते अस्मिन् महोत्सवे जनजातीयसंस्कृतेः कला शिल्पयोश्च अद्भुतः संगमः द्रष्टुं शक्यते।

ट्राइफेड् संस्थायाः क्षेत्रीयप्रबन्धिका प्रीतिमैथिल् अवदत् यत् केन्द्रीयराज्यमन्त्री दुर्गादास उईके महोदयस्य मुख्यातिथित्वे बैतूलस्थे छत्रपति शिवाजी मुक्त सभागृहे अपराह्णे एकवादने अस्य षड्दिवसीय आदि बाज़ार महोत्सवस्य शुभारम्भः भविष्यति। अस्मिन् कार्यक्रमे भाजपा दलस्य प्रदेशाध्यक्षः तथा विधायकः हेमन्त खण्डेलवालः विशेषरूपेण उपस्थितः भविष्यति।

सा अवदत् यत् अयं आदि बाज़ार महोत्सवः भारतीय जनजातीय सहकारी विपणन विकास संघ मर्यादित (ट्राइफेड्) संस्थया जनजातीय कार्य मन्त्रालयस्य, भारतसरकारस्य तत्वावधाने आयोज्यते। अस्मिन् आदि बाज़ारे देशस्य विविधप्रदेशेभ्यः पञ्चाशत् प्रतिभाशालिनः कारीगराः भागं गृह्णन्ति। तेषु मध्यप्रदेशस्य, छत्तीसगढ़स्य, गुजरातस्य, महाराष्ट्रस्य, राजस्थानस्य, तेलङ्गानस्य तथा पूर्वोत्तरराज्यानां कारीगराः, अपि च बैतूलजनपदस्य स्थानीयकारीगराः अपि सन्ति।

आगन्तुकानां कृते महेश्वरी चन्देरी तथा बाघप्रिन्ट् साड्यः सूटाः, डोकरा धातुशिल्पम्, वेणुशिल्पम् (बांस शिल्प), कृष्णलोहशिल्पम्, जनजातीयचित्रकलाः, मधु, उपहारवस्तूनि, तथा स्थानीय जैविक उत्पादानां विस्तीर्णा शृङ्खला दर्शनार्थं क्रयार्थं च उपलब्धा भविष्यति। महोत्सवे सांस्कृतिकप्रस्तुतयः अपि आयोजिताः भविष्यन्ति।

आदि बाज़ार महोत्सवः षड्विंशतितमे दिसम्बरमासस्य दिने पर्यन्तं प्रतिदिनं प्रातः एकादशवादनात् रात्रौ नववादनपर्यन्तं सञ्चालितः भविष्यति। अस्मिन् अवसरः आहारमहोत्सवः अपि आयोज्यते, यस्मिन् मिलेट् धान्यैः निर्मिताः पारम्परिकाः नूतनाश्च खाद्यपदार्थाः स्तम्भेषु प्रदर्श्यन्ते।

अत्र ट्राइफेड् संस्थायाः पञ्चविंशतिः स्तम्भाः, एनईएचएचसीडी संस्थायाः त्रयः स्तम्भाः, तथा जनपदप्रशासनस्य द्वाविंशतिः स्तम्भाः स्थापिताः भविष्यन्ति। आदि बाज़ारे लघु झूलाः तथा विविधा मनोरञ्जनक्रियाः अपि आयोज्यन्ते।

हिन्दुस्थान समाचार