उपराष्ट्रपतिः अद्य इंदौरे, अटलजेः 100तमायां जयंत्यां शून्यात् शतकमिति कार्यक्रमे सम्मेलिष्यति
इंदौरम्, 21 दिसंबरमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णनः अद्य मध्यप्रदेशराज्यस्य एकदिवसीयप्रवासार्थम् इन्दौर नगरे आगमिष्यति। सः अत्र पूर्वप्रधानमन्त्रीणः भारतरत्नस्य स्वर्गीयस्य अटल बिहारी वाजपेयिनः शततमजयंतीनिमित्तं आयोजिते शून्यतः शतकम्
उपराष्ट्रपति सीपी राधाकृष्णन (फाइल फोटो)


इंदौरम्, 21 दिसंबरमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णनः अद्य मध्यप्रदेशराज्यस्य एकदिवसीयप्रवासार्थम् इन्दौर नगरे आगमिष्यति। सः अत्र पूर्वप्रधानमन्त्रीणः भारतरत्नस्य स्वर्गीयस्य अटल बिहारी वाजपेयिनः शततमजयंतीनिमित्तं आयोजिते शून्यतः शतकम् इति कार्यक्रमे मुख्यातिथिरूपेण सहभागी भविष्यति। अस्मिन् कार्यक्रमे मध्यप्रदेशस्य राज्यपालः मंगुभाई पटेलः तथा मुख्यमंत्री डा. मोहन यादवः अपि भागं ग्रहिष्यन्ति।

अस्मिन् कार्यक्रमे चत्वारः विद्वांसः अटल अलंकरणेन अलंकृताः भविष्यन्ति। अटल फाउण्डेशनस्य अध्यक्षा माला वाजपेयी तिवारी अवदत् यत् अस्मिन् वर्षे देशस्य सर्वत्र विविधाः कार्यक्रमाः आयोजिताः। तस्यैव परम्परायां वर्षस्य समाप्तेः पूर्वमेव अद्य इन्दौरस्थे डेलीमहाविद्यालयस्य धीरूभाई अम्बानी सभागृहे एकः भव्यः कार्यक्रमः आयोजितः अस्ति।

शून्यतः शतकम् इति शीर्षके आयोजिते अस्मिन् कार्यक्रमे देशस्य उपराष्ट्रपतिः सी. पी. राधाकृष्णनः, राज्यस्य राज्यपालः मंगुभाई पटेलः तथा मुख्यमंत्री डा. मोहन यादवः सहभागी भविष्यन्ति। सा अवदत् यत् कार्यक्रमः अपराह्णे त्रिवादनात् आरभ्यते। अस्मिन् अवसरः बीएसएफ् संस्थायाः वाद्यवृन्देन वन्दे मातरम् इति गीतस्य प्रस्तुति अपि भविष्यति।

अस्मिन् समारोहे प्रसिद्धः कविः सत्यनारायण सत्तनः, पूर्वकेन्द्रीयमन्त्री सत्यनारायण जटिया, भारतीयक्रिकेटदलस्य चयनसमितेः पूर्वचयनकर्ता संजय जगदाले, तथा सागरनगरस्य पारंग शुक्लः इत्येते अटल अलंकरणेन सम्मानिताः भविष्यन्ति। एतस्मिन् अवसरः अटलजीवनकेन्द्रिता एका लघुचलच्चित्रप्रदर्शनी अपि भविष्यति।

अटलजीसम्बद्धानां संस्मरणानां आधारेण रचितस्य सदा अटल महाग्रन्थः इति पुस्तकस्य तृतीयसंस्करणस्य आवरणपृष्ठस्य लोकार्पणमपि भविष्यति। अस्मिन् कार्यक्रमे लोकसभायाः पूर्वाध्यक्षया सुमित्रा महाजन महोदया सह अन्येषां राज्याणां मन्त्रिणः, सांसदाश्च अपि सहभागी भविष्यन्ति।

निर्धारितकार्यक्रमानुसारं उपराष्ट्रपतिः सी. पी. राधाकृष्णनः अपराह्णे द्विवादनविंशतिमिनिटे इन्दौरम् आगमिष्यति तथा अपराह्णे द्विपञ्चाशन्मिनिटे डेली कॉलेजस्थे धीरूभाई अम्बानी सभागृहे आयोजिते पूर्वप्रधानमन्त्रीणः स्वर्गीयस्य अटल बिहारी वाजपेयीस्य जन्मशताब्दीसमारोहः सम्मिलिष्यति। ततः सः सायं चतुर्वादनपञ्चदशमिनिटे देवी अहिल्याबाई होल्कर विमानक्षेत्रात् नूतनदिल्लीं प्रति प्रस्थानं करिष्यति।

राज्यशासनेन उपराष्ट्रपतिः आगवानीं विदायां सत्कारं च कर्तुं प्रदेशस्य जलसंसाधनमन्त्री तुलसीराम सिलावटः मिनिस्टर इन वेटिंग इति रूपेण नामांकितः अस्ति।

हिन्दुस्थान समाचार