उज्जैने अंताराष्ट्रिय ज्योतिष महाधिवेशनमद्य, आराष्ट्रं विद्वांसः ग्रहीष्यन्ति भागम्
उज्जैनम्, 21 दिसंबरमासः (हि.स.)। मध्यप्रदेशराज्यस्य उज्जयिनी नगरे अद्य रविवासरे द्विदिवसीयस्य षष्ठस्य अन्ताराष्ट्रिय ज्योतिष महाधिवेशनस्य शुभारम्भः भविष्यति। अयं महाकुम्भः कालिदास संस्कृत अकादम्याः अन्तर्गतस्थे अभिरङ्ग सभागृहे आयोज्यते। अत्र भारतदे
प्रतीकात्मक तस्वीर


उज्जैनम्, 21 दिसंबरमासः (हि.स.)। मध्यप्रदेशराज्यस्य उज्जयिनी नगरे अद्य रविवासरे द्विदिवसीयस्य षष्ठस्य अन्ताराष्ट्रिय ज्योतिष महाधिवेशनस्य शुभारम्भः भविष्यति। अयं महाकुम्भः कालिदास संस्कृत अकादम्याः अन्तर्गतस्थे अभिरङ्ग सभागृहे आयोज्यते। अत्र भारतदेशस्य विविधराज्येभ्यः आगताः विद्वांसः, अपि च नेपालदेशात् आगताः ज्योतिषिणः वास्तुविदः, तन्त्राध्येता अध्यात्मविदश्च ज्योतिष, वास्तु, तन्त्र तथा अध्यात्मस्य गूढविषयेषु विमर्शं करिष्यन्ति।

समितेः संयोजकः डा. सर्वेश्वर शर्मा तथा सहसंयोजकः डा. अजय शर्मा अवदताम् यत् शुभारम्भः अपराह्णे द्विवादनार्धे (२.३० वादने) भविष्यति। सम्राट् विक्रमादित्य विश्वविद्यालयस्य कार्यपरिषदः वरिष्ठसदस्यः राजेशसिंह कुशवाहः अतिथिरूपेण उपस्थितः भविष्यति। अधिवेशनस्य अध्यक्षतां कुलगुरुः प्रो. अर्पण भारद्वाजः करिष्यति।

सारस्वत अतिथिरूपेण राज्यसभासांसदः बालयोगी उमेशनाथ महाराजः, विशिष्टातिथिरूपेण पुराविद् डा. रमन सोलंकी, तथा संस्कृत ज्योतिर्विज्ञान वेद अध्ययनशालायाः विभागाध्यक्षः प्रो. बी. के. आञ्जना उपस्थिताः भविष्यन्ति।

अस्य सम्मेलनस्य संयुक्तरूपेण आयोजनं सम्राट् विक्रमादित्य विश्वविद्यालयेन, कालिदास संस्कृत अकादम्या, पूर्णश्री फाउण्डेशन, आचार्य वराहमिहिर न्यासेन, सम्राट् विक्रमादित्य विद्वत् परिषदेन तथा साउथ् एशियन एस्ट्रो फेडरेशन (नेपाल) संस्थया क्रियते।

अस्मिन् अधिवेशने गुजरात, राजस्थान, महाराष्ट्र, जम्मू कश्मीर, उत्तरप्रदेश, बिहार, पंजाब, हरियाणा तथा आन्ध्रप्रदेशराज्येभ्यः आगताः दैवज्ञविद्वांसः व्याख्यानानि दास्यन्ति। नेपालदेशस्य पञ्चाङ्ग समितेः कार्यकारीनिर्देशकः आचार्य लक्ष्मण पन्थी, डा. निलिप त्रिपाठी तथा आचार्य कैलाशपति नायकः अपि व्याख्यानं करिष्यन्ति।

अधिवेशनस्य समापनं सोमवासरे अपराह्णे चतुर्वादने (४.०० वादने) भविष्यति।

हिन्दुस्थान समाचार