राष्टिय महिला आयोगस्य दलेन अकरोत् सखी वन स्टॉपकेंद्रस्य निरीक्षणम्
नवादा, 21 दिसंबरमासः (हि.स.)। भारतसर्वकारस्य राष्ट्रियमहिलाआयोगस्य सदस्या ममता कुमारी तया सह आगतया दलद्वारा रविवासरे सखी वन स्टॉप सेन्टरस्य निरीक्षणं कृतम्। तया क्रमशः सर्वैः कर्मिभिः सह संवादं कृत्वा तैः कृतानां कार्याणां विवरणं प्राप्तम्। तया सर
निरीक्षण करती आयोग के सदस्य


नवादा, 21 दिसंबरमासः (हि.स.)।

भारतसर्वकारस्य राष्ट्रियमहिलाआयोगस्य सदस्या ममता कुमारी तया सह आगतया दलद्वारा रविवासरे सखी वन स्टॉप सेन्टरस्य निरीक्षणं कृतम्। तया क्रमशः सर्वैः कर्मिभिः सह संवादं कृत्वा तैः कृतानां कार्याणां विवरणं प्राप्तम्। तया सर्वासु पञ्चायतस्तरीयेषु ग्रामेषु बालविवाहनिवारणार्थं सर्वत्र पोस्टरचित्रलेखनस्य स्थापने निर्देशः दत्तः। तथा च सर्वेषां कक्षाणां द्वारेषु नामलेखनं कर्तव्यमिति अपि निर्देशितम्। तत्र आगतानां प्रकरणानां विषये अपि सा सूचनां प्राप्तवती।

तत्पश्चात् तस्याः दलद्वारा नवादानगरे स्थितस्य सदर चिकिसालयस्य निरीक्षणं कृतम्। तत्र प्रसूतिमहिलानां नवजातशिशूनां च स्थितिः परीक्षिता। अस्मिन् क्रमः अस्पतालस्य शय्या कम्बलानि च अतिशयेन मलिनानि दृष्टानि। कर्मिषु प्रशिक्षणस्य अत्यन्ताभावः आसीत्। नवजातशिशूनां परिचर्या तथा वस्त्रैः सम्यक् आवरणस्य व्यवस्था अपि न आसीत्। तत्र वाहनसेवायाः अभावः अपि दृष्टः यतो हि सर्वे रोगिणः स्वसाधनैः एव तत्र आगच्छन्ति। अस्पतालमध्ये विद्युत्सुविधा अपि न आसीत्। सर्वा व्यवस्था अतीव दयनीया इति अनुभूता।

ततः सा आङ्गनवाडीकेन्द्रं अपि गतवती। तत्र निरीक्षणकाले ज्ञातं यत् तस्य केन्द्रस्य भूमिः भग्ना आसीत् तथा विद्युत्सुविधा अपि न आसीत्। सा जीविकासम्बद्धैः स्वसहायता समूहैः सह अपि मिलित्वा तैः कृतकार्याणां विवरणं प्राप्तवती। कार्यालयस्य कार्यप्रणालीं अधिकं सुदृढं कर्तुं आवश्यकाः दिशानिर्देशाः दत्ताः।

सा शिक्षायाः महत्त्वं प्रतिपादयामास यतो हि शिक्षया व्यवस्था अधिका सशक्ता भविष्यति। पुत्रपुत्रीभेदभावात् उपरि उत्थानस्य आह्वानं कृतम्। परस्परं पारिवारिकभावेन साहाय्यं कर्तुं प्रेरणा दत्ता। बालविवाहनिवारणस्य अपि स्पष्टः संदेशः दत्तः।

---------------

हिन्दुस्थान समाचार