राष्ट्रिय स्वयंसेवक संघाय संभवो न अनुभविष्यते : मोहन भागवतः
कोलकाता, 21 दिसंबरमासः, (हि.स)। ‘‘संघं केवलं दृष्ट्वा सम्यक् अवगन्तुं न शक्यते, तदनुभवितव्यम्’’—इति वाक्यं राष्ट्रिय स्वयंसेवक संघस्य सरसंघचालकः डा. मोहन भागवतः रविवासरे कोलकाता नगरे साइंस सिटी सभागृहे आयोजितायाः व्याख्यानशृंखलायाः “संघस्य शतवर्ष
be1016546b050530658183965f8af065_745264805.jpg


कोलकाता, 21 दिसंबरमासः, (हि.स)।

‘‘संघं केवलं दृष्ट्वा सम्यक् अवगन्तुं न शक्यते, तदनुभवितव्यम्’’—इति वाक्यं राष्ट्रिय स्वयंसेवक संघस्य सरसंघचालकः डा. मोहन भागवतः रविवासरे कोलकाता नगरे साइंस सिटी सभागृहे आयोजितायाः व्याख्यानशृंखलायाः “संघस्य शतवर्षाणि – नवानि क्षितिजानि” इति विषयकस्य प्रथमसत्रस्य सम्बोधनकाले अवदत्।

सः अवदत् यत् संघनाम्ना समग्रं विश्वं परिचितम् अस्ति, किन्तु तस्य कार्यविषये सम्यक् धारणा सर्वेषु जनासु न दृश्यते। संघस्य हितैषिणामपि संघकार्येषु विषये यथार्थज्ञानस्य अभावः दृश्यते। सः अवदत् यत् बहवः जनाः संघं प्रायः भाजपा माध्यमेन एव अवलोकयितुं प्रयत्नं कुर्वन्ति, यत् सर्वथा अशुद्धम् अस्ति।

डा. मोहन भागवतः अवदत् यत् अद्य देशे संघः एकलक्षविंशतिसहस्राणि (१,२०,०००) प्रकल्पानि माध्यमीकृत्य देशस्य समाजस्य च सर्वाङ्गीणोन्नतये निरन्तरं प्रयत्नं करोति। यदि कश्चन संघं अवगन्तुम् इच्छति, तर्हि स्वीयपूर्वधारणाः परित्यज्य संघं अनुभावयितव्यम्।

संघस्य स्थापनायाḥ पृष्ठभूमिं वर्णयन् सः अवदत् यत् संघः न कस्यचित् परिस्थितेः प्रतिक्रियारूपेण, न कस्यचित् विरोधाय, न स्पर्धार्थं, न च केवलं उपलब्धिप्राप्त्यर्थं निर्मितः। सः केवलं हिन्दू समाजस्य सर्वाङ्गीणोन्नतये अस्तित्वं प्राप्तवान्।

संघप्रमुखः अवदत् यत् तदानीन्तनाः देशपरिस्थितयः सन्तोषजनकाः न आसन्। देशः एकस्य पश्चात् एकं बाह्य आक्रमणं सहमानः आसीत्। आङ्ग्लशासनात् पूर्वमेव वयं पराधीनतायाः वेदनाम् अनुभूतवन्तः। एतादृशेषु परिस्थितिषु हिन्दू समाजस्य संगठनस्य आवश्यकता अनुभूता। समाजस्य आचारव्यवहारं गुणवत्तायुक्तं कर्तुं देशव्यापी कार्यकर्तृसमूहस्य निर्माणं आवश्यकं अभवत्।

अन्ते सः अवदत् यत् हिन्दू इति केवलं नाम न, अपि तु विशेषणम् अस्ति, यत् सर्वसमावेशी भवति तथा सर्वेषां कल्याणं चिन्तयति। यः भारतं मातृरूपेण स्वीकरोति, तां पूजयति च, सः हिन्दुः इति कथ्यते।

---------------

हिन्दुस्थान समाचार