मुख्यमंत्री भजनलाल शर्मा ‘रन फॉर जयपुर’ इत्यस्मै हरितं ध्वजों दर्शित्वा प्रस्थितः
जयपुरम्, 21 दिसंबरमासः (हि.स.)। मुख्यमंत्री भजनलाल शर्मा रविवासरे जयपुर स्थितात् अल्बर्ट् हॉल् नाम्नः स्थले “रन् फ़ॉर जयपुर्” इति मैराथनं हरितध्वजं दर्शयित्वा प्रेषितवान्। अस्मिन् अवसरः स्वीयोद्बोधने सः अवदत् यत् दैनिक भास्कर पत्रिकया आयोजितः अयं
‘रन फॉर जयपुर’


जयपुरम्, 21 दिसंबरमासः (हि.स.)।

मुख्यमंत्री भजनलाल शर्मा रविवासरे जयपुर स्थितात् अल्बर्ट् हॉल् नाम्नः स्थले “रन् फ़ॉर जयपुर्” इति मैराथनं हरितध्वजं दर्शयित्वा प्रेषितवान्। अस्मिन् अवसरः स्वीयोद्बोधने सः अवदत् यत् दैनिक भास्कर पत्रिकया आयोजितः अयं कार्यक्रमः मार्गसुरक्षायै स्वस्थजीवनशैल्यै च दिशायां महत्त्वपूर्णा पहलः अस्ति।

मुख्यमंत्री अवदत् यत् मार्गदुर्घटनानां निवारणार्थं यातायातनियमपालनं अत्यन्तावश्यकम् अस्ति। अस्माकं लघ्वी अपि प्रमादः मार्गदुर्घटनानां कारणं भवितुं शक्नोति। सः अवदत् यत् अस्माकं जीवनं अमूल्यं वर्तते। अतः वाहनचालनसमये शिरस्त्राणस्य (हेल्मेटस्य) तथा आसनबन्धस्य (सीट् बेल्टस्य) अनिवार्यतया उपयोगः कर्तव्यः, येन दुर्घटनाभ्यः संरक्षणं सम्भवेत्।

शर्मा महोदयः राज्यसरकारस्य मार्गसुरक्षासम्बद्धेषु कार्यक्रमेषु सहकार्यं कृत्वा दैनिक भास्कर संस्थायै धन्यवादं दत्तवान्। सः अवदत् यत् एतादृशाः कार्यक्रमाः समाजे यातायातनियमेषु जागरूकतां जनयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। अपि च, एतेषु आयोजनेषु युवानां सक्रियसहभागितया मार्गसुरक्षायाः सन्देशः जनजनपर्यन्तं अधिकप्रभावीरूपेण प्रसरति।

अस्मिन् अवसरे श्री शर्मा दौड प्रतियोगितायां भागं गृह्णतां प्रतिभागिनां समीपं गत्वा तेषां उत्साहवर्धनमपि कृतवान्। अत्र विविधाः गणमान्यव्यक्तयः तथा बहुसंख्याः प्रतिभागिनः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार