संघ शताब्दी वर्ष व्याख्याने डॉ. मोहन भागवतस्य आह्वानम् - वैभवशाली राष्ट्र निर्माणाय विचारो भिन्नस्सन्नपि परं मनः एकं वर्तताम्
भारतं, हिंदुस्थानं हिंदूश्च समानार्थिनो वर्तन्ते- भागवतः कोलकाता, 21 दिसंबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षस्य अवसरे कोलकातानगरे आयोजितस्य व्याख्यानस्य द्वितीयसत्रं सम्बोधयन् सरसंघचालकः डॉ. मोहनभागवतः अवदत् यत् समाजे विचाराणा
संघ शताब्दी वर्ष व्याख्याने डॉ. मोहन भागवतस्य आह्वानम् - वैभवशाली राष्ट्र निर्माणाय विचारो भिन्नस्सन्नपि परं मनः एकं वर्तताम्


भारतं, हिंदुस्थानं हिंदूश्च समानार्थिनो वर्तन्ते- भागवतः

कोलकाता, 21 दिसंबरमासः (हि.स.)।

राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षस्य अवसरे कोलकातानगरे आयोजितस्य व्याख्यानस्य द्वितीयसत्रं सम्बोधयन् सरसंघचालकः डॉ. मोहनभागवतः अवदत् यत् समाजे विचाराणां स्पर्धा स्वाभाविकी अस्ति, किन्तु देशस्य समाजस्य च हिताय सर्वेषां मनांसि एकीकृतानि भवन्तु, येन वैभवशाली राष्ट्रनिर्माणं सम्भवेत्। सः अवदत् यत् संघस्य मूलस्वभावः मैत्री, सामूहिकता तथा निस्वार्थसेवायां आधारितः अस्ति, एतदेव तस्य बलम्।

“शतवर्षीय संघयात्रा – नूतनाः क्षितिजाः” इति शीर्षकस्य व्याख्यानस्य द्वितीयसत्रे सरसंघचालकः पारिवारिकमूल्यानां परम्पराणां च संरक्षणसंवर्धनयोः विशेषं बलं दत्तवान्। तेन सह संघस्य कार्यपद्धतिः, तस्य वैचारिकी यात्रा, भविष्यस्य कार्यसूची च विस्तरेण निरूपिता। सः अवदत् यत् संघं सम्यक् अवगन्तुं बहिःस्थरूपेण धारणा निर्मातुं न, अपि तु शाखायां प्रत्यक्षतया आगत्य दर्शनम् अनुभवः च करणीयः।

पञ्चप्रणेषु बलं दत्तम्

आचरणपरिवर्तनाय सः पञ्चसु बिन्दुषु बलं दत्तवान्। तेषु सामाजिकसमरसता, कुटुम्बप्रबोधनम्, पर्यावरणसंरक्षणम्, स्वदेशीभावः, संविधानं च अन्तर्भवन्ति। सः अवदत् यत् मन्दिरं, जलं, श्मशानं च सर्वेषां हिन्दूनां कृते समानानि सन्ति। कुटुम्बेषु संवादः वर्धताम्, सप्ताहे एकं दिनं सर्वे सदस्याः सह उपविश्य भोजनं कुर्वन्तु, परम्पराविषये च चिन्तनं कुर्वन्तु। पर्यावरणसंरक्षणं केवलं चर्चायां सीमितं न भवेत्, अपि तु लघुप्रयत्नैः दैनन्दिनजीवने अवतारयितव्यम्। स्वदेश्यस्य माध्यमेन आत्मनिर्भरता स्वावलम्बनं च वर्धताम्, संविधानस्य प्रस्तावना, नागरिककर्तव्याधिकाराश्च बालकेभ्यः अवगताः कार्याः।

सः अवदत् यत् स्वयंसेवकाः समाजस्य सर्वेषु क्षेत्रेषु कार्यं कुर्वन्ति, संघः कञ्चनापि नियन्त्रयति न—न बहिः, न अन्तः। संघं अवगन्तुं डॉ. हेडगेवारस्य चरित्रं जीवनं च ज्ञातुं आवश्यकम्। अत्यन्तविपरीतपरिस्थितिषु आर्थिकाभावेषु च सन् अपि शुद्धान्तःकरणेन निस्वार्थबुद्ध्या च तेन संघकार्यं आरब्धम्। समाजस्य स्नेहेन विश्वासेन च एतत् कार्यं अग्रे प्रवृत्तं, एतद् ईश्वरीयं कार्यम् इति सः अवदत्।

सः अवदत् यत् जगति कस्यचित् स्वयंसेवीसंगठनस्य इतः परं विरोधः न अभवत्, यथा संघस्य। आक्रमणानि अभवन्, हत्याः अपि जाताः, तथापि स्वयंसेवकाः न विरमन्। एतत्सर्वं सन् अपि स्वयंसेवकानां मनसि कटुता न विद्यते। संघः गुरुदक्षिणया सञ्चलति, बहिःसहाय्यां न स्वीकरोति। संघः आर्थिकदृष्ट्या स्वावलम्बी अस्ति, पाईपाईपर्यन्तं लेखा रक्ष्यते, नियमितं लेखापरीक्षणं च भवति।

सरसंघचालकः अवदत् यत् देशस्य पौने सप्तलक्षग्रामेषु सवा एकलक्षाधिकेषु स्थानेषु संघस्य उपस्थितिः अस्ति। पञ्चचत्वारिंशत्सहस्रनगराणां मध्ये अद्य अर्धेषु संघः प्राप्तः, शेषार्धेषु गन्तुं लक्ष्यं स्थापितम्। डॉ. भागवतः अवदत् यत् समाजे बहवः सज्जनाः जनाः सन्ति, ये प्रसिद्ध्याशां विना स्वसाधनैः सेवा कुर्वन्ति। संघः एतां समाजस्य सज्जनशक्तिं मन्यते। अस्याः सज्जनशक्तेः जालं निर्मातुं, परस्परसमन्वयं वर्धयितुं, पूरकत्वं च आनयितुं संघस्य भूमिका अस्ति। अधुना समयः आगतः यत् देशव्यापिकार्यकर्तृभिः समाजस्य आचरणे परिवर्तनं आनयितव्यम्।

संघप्रमुखः अवदत् यत् हिन्दूनां शक्तिः जागरूकं भवति, निश्चितं च भविष्यति। भारतः, हिन्दुस्थानं, हिन्दवः—एते समानार्थकाः सन्ति। सः अवदत् यत् सर्वान् सह नयन् यदि कश्चन संगठनः अस्ति, सः संघ एव। संघः सम्पूर्णं समाजं स्वकीयं मन्यते, अस्याः आत्मीयभावनायाः आधारेण एव एकता निर्मीयते। सः स्पष्टं कृतवान् यत् सर्वेषां शाखायां आगमनं अनिवार्यं नास्ति, किन्तु शाखावत् निस्वार्थतायाः प्रामाणिकतायाश्च प्रशिक्षणं दातुं अन्यत् किञ्चन कार्यप्रणाली नास्ति।

अन्ते डॉ. मोहनभागवतः अवदत् यत् संघः श्रेयः ग्रहणार्थं न कार्यं करोति, अपि तु समाजेन सह मिलित्वा राष्ट्रनिर्माणकार्ये निरतः भवति।

---------------

हिन्दुस्थान समाचार