उपराष्ट्रपतिः आंतरिक शांतये सामाजिक सौहार्दाय ध्यानमावश्यकमुक्तम्
तेलंगाना, 21 दिसंबरमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णनः अवदत् यत् ध्यानम् आन्तरिकशान्त्यै, भावनात्मकसन्तुलनाय, सामाजिकसौहार्दाय च अत्यन्तावश्यकम् अस्ति। स एव सच्चः विकासः यत्र आर्थिकप्रगत्या सह भावनात्मकं आध्यात्मिकं च कल्याणम् अपि समावि
तेलंगाना के कन्हा शांति वनम में विश्व ध्यान दिवस समारोह में उपराष्ट्रपति सीपी राधाकृष्णन


तेलंगाना, 21 दिसंबरमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णनः अवदत् यत् ध्यानम् आन्तरिकशान्त्यै, भावनात्मकसन्तुलनाय, सामाजिकसौहार्दाय च अत्यन्तावश्यकम् अस्ति। स एव सच्चः विकासः यत्र आर्थिकप्रगत्या सह भावनात्मकं आध्यात्मिकं च कल्याणम् अपि समाविष्टं भवति।

उपराष्ट्रपतिः तेलङ्गानाराज्ये स्थिते कन्हा-शान्ति-वनम् इति स्थले आयोजिते विश्वध्यानदिवससमारोहे अवदत् यत् ध्यानं सार्वभौमः अभ्यासः अस्ति, यः सांस्कृतिक-भौगोलिक-धार्मिकसीमानाम् अतिक्रमणं करोति। तत् मानसिकस्पष्टतां, भावनात्मकस्थैर्यं, आत्मिकपरिवर्तनं च प्रसूते। आधुनिकजीवने ध्यानस्य महत्त्वं निरन्तरं वर्धते इति तेन उक्तं, विश्वध्यानदिवसः च एतत् तथ्यं विशेषतया रेखाङ्कयति।

उपराष्ट्रपतिः संयुक्तराष्ट्रमहासभायां एकविंशतितमे दिसम्बरमासे विश्वध्यानदिवसस्य घोषणासम्बद्धस्य प्रस्तावस्य सह-प्रायोजने भारतस्य भूमिकां प्रशंसन् अवदत् यत् एषा ध्यानस्य शक्तेः वैश्विकस्तरीयः मान्यतारूपः निर्णयः अस्ति।

उपराष्ट्रपतिः विश्वे ध्यानप्रसाराय दाजेष्ट योगदानस्य प्रशंसां कृत्वा अवदत् यत् भारतः स्वस्य सहस्राब्दीनां ध्यान-योग-आध्यात्मिकपरम्पराभिः अद्यापि विश्वं मार्गदर्शयति।

भारतस्य सभ्यतागतनिक्षेपं प्रति संकेतं कृत्वा उपराष्ट्रपतिः अवदत् यत् भारतदेशे ध्यानं मनसः आत्मनश्च प्राचीनविज्ञानरूपेण दृष्टम्। भगवद्गीतायाः तथा तमिळाध्यात्मिकग्रन्थस्य तिरुमन्त्रस्य सन्दर्भान् उल्लिख्य तेन उक्तं यत् ध्यानस्य माध्यमेन मनोनिग्रहः आन्तरिकसामञ्जस्यं, आत्मबोधं, नैतिकजीवनं च प्रति नयति।

विकसितभारत-२०४७ इति लक्ष्यस्य विषये उपराष्ट्रपतिः अवदत् यत् राष्ट्रियविकासः केवलं आर्थिकोपलब्धिषु सीमितः न भवेत्, अपि तु भावनात्मकसशक्तीकरणं आध्यात्मिकोन्नतिश्च तत्र समाविष्टे भवेताम्। शान्तस्य, सहिष्णोः, करुणामयस्य समाजस्य निर्माणे ध्यानं महत्त्वपूर्णां भूमिकां निर्वहति। शान्ति-वनम् द्वारा स्वीकृतानां पर्यावरण-संवेदनशीलानां पहलानां समग्रकल्याणसम्बद्धानां प्रयासानां च तेन प्रशंसा कृता।

अस्मिन् समारोहे तेलङ्गानाराज्यस्य राज्यपालः जिष्णु-देव-वर्मा, तेलङ्गानासर्वकारस्य मन्त्री डी. श्रीधर-बाबू, हार्टफुलनेस-ध्यानस्य आध्यात्मिकमार्गदर्शकः दाजी-कमलेशः डी. पटेलः इत्यादयः बहवः विशिष्टाः जनाः उपस्थिताः आसन्। ---------------

हिन्दुस्थान समाचार