Enter your Email Address to subscribe to our newsletters

रायपुरम्, 22 दिसंबरमासः (हि.स.)। छत्तीसगढराज्यशासनस्य जलसंसाधनविभागेन रायगढ जनपदे विकासखण्डस्य सारंगढ अन्तर्गते खुण्डी नाला व्यपवर्तन योजनायाः कार्यार्थं षोडश कोटि चत्वारिंशत् लक्ष त्रिंशत्सहस्रं रूप्यकाणि स्वीकृतानि सन्ति।
योजनायाः कार्ये पूर्णे सति क्षेत्रे प्रायः त्रिशतहेक्टेयरपरिमिते भूभागे खरीफ-ऋतौ उत्पाद्यमानानां सस्यानां कृते सिंचनसुविधा उपलब्धा भविष्यति।
जलसंसाधनविभागस्य मन्त्रालया महानदी भवनात् सिंचनकार्यस्य पूर्णतां साधयितुं हसदेव कछार जलसंसाधनविभागस्य मुख्य अभियन्त्रे बिलासपुरे पुनरीक्षितां प्रशासकीयस्वीकृतिर्निर्गता अस्ति।
---------------
हिन्दुस्थान समाचार